पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ६०९ तत्तादृक्षज्ञानपाथोधिगुष्मत्पादद्वंद्धं पद्मसौहार्दहृद्यम् ॥ दैवादेतद्दीनदृग्गोचरश्चेद्रक्तस्यैतद्रागधेयं ह्यमेयम् ॥ ४७ ॥ इत्याकण्यथाब्रवीद्रौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्रुणौघान् ।। द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥४८॥ कृतास्त्वया भाष्यमुस्खा निबन्धा मत्कारिकावारिजनुःसुस्वार्काः ॥ श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥४९॥ इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेपमस्मै ॥ विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥ ५० ॥ मत्कारिकाभावविभेदितादृङाण्ड़क्यभाष्यश्रवणोत्थहर्ष: ॥ दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥ ५१ ॥ स प्राह पर्यायथुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् ॥ वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम्५२ पयामि गुरुं मुनीनाम्' इति । योगमाहात्म्येन गमनागमनयोः संभवात्परीक्षिदुपदेष्टत्व द्रौडपादोपदेष्टत्वमपि न विरुध्यत इति द्रष्टव्यम् ॥ ४६ ॥ [ सर्वेति । “अहमेवेदं सर्वाम्' इति सर्वत्र यदहंताशीलनमात्मैक्यानुसंधानाभ्यसनं तलक्षणो योऽयमासमन्ता द्योगश्चित्तवृत्तिनिरोधस्तस्य भूम्रा महिन्नेत्यर्थः । सप्रपञ्चेति । सपपश्वं प्रपश्वविशिष्टं ४६ ॥ यद्रह्म तेन साकं य एकभाव एकत्वं तं प्राप्तः सन्निति यावत् ] ॥ तत्तस्मादेवंविधस्य ज्ञानसमुद्रस्य भवतः कमलस्य सौहार्देन सादृश्येन हृद्यमेतत्पा दद्वे देवादस्मद्विवदीनदृष्टिविषयभूतं यदि स्यात्तद्येतद्भक्तस्याप्रमेयं भाग्यम् ॥ ४७ ॥ शान्तमनस्वन्तं त्वां द्रष्टुमत्यन्तोत्कण्ठागर्भितं मम मानसमासीन् ॥ ४८ ॥ किंच मत्कृतकारिकाब्जसुखसूर्या भाप्यादयो निबन्धास्त्वया कृता इति गोविन्द मुखाच्ळूत्वा हर्ष प्राप्याद्य हे विस्तव दृष्टिमार्गेगोऽस्मि ॥ ४९ ।। माण्डुक्यतं भाष्ययुग्मं श्रुतिभप्यं गौडपादायकारिकाभाष्यं चेत्यर्थः । उपजाति वृत्तम् ॥ ५० ॥ श्रवणेनो यदुवाच तदाइ । मत्कारिकाभावविभेदिनोस्तादृशयोर्माण्डूक्यभाष्ययोः त्थितो हर्षों विदुषां मध्ये श्रेष्ठाय तुभ्यं वरं दातुं प्रोत्साहयति । तस्माच्छीघं वरं वृणीष्व । इन्द्रवत्रा वृत्तम् ॥ ५१ ॥ एवं वरग्रहणाय प्रेरितः स श्रीशंकरः प्राह । भवन्तं पर्यायेण रूपान्तरेणोपलक्षितं शुकर्षि शुकर्षेः पर्यायमिति वा । सर्वात्मना शुकर्षितुल्यमीक्ष्य भगवन्तमकलिंपुरुषं

  • क. घ. 'चरं चेद्र'। २ ग. घ. जनेः सु'। ३ क. 'गतभा'। ४ क. 'लिपूरु'।