श्रीमच्छकरदिग्विजयः । तथेति सोऽन्तर्धिमपास्तमोहे गते चिरंजीविमुनावथासौ ॥ वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयैस्तां क्षणदामनैषीत् ॥ ५३ ॥ अथ द्युनद्यामुषसि क्षमीन्द्रो निर्वत्र्य नित्यं विधिक्त्स शिष्यैः ॥ तीरे निदिध्यासनलालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४ ॥ जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मण्डलं भारताख्यम् ॥ काश्मीरराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा॥५५॥ द्वारैर्युक्तं माण्डपैस्तचतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।। यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥ ५६ ॥ प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः । सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्धाटयांन्त ॥ ५७ ॥ वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् । काश्मीरदेशाय जगाम हृष्टः श्रीशंकरो द्वारमपावरीतुम् ॥ ५८ ॥ [ सर्गः १६] त्रियुगं परमात्मानं विष्णुमेवाहमद्राक्षमतोऽस्मात्परो वरः कोऽस्ति कोऽपि नास्ति तथाऽपि हे गुरो मे चिन्तनं सदैव चैतन्यतत्वाविषयमस्त्विति वरं देहीत्यर्थः । उप जातिवृत्तम् ॥ ५२ ॥ [ *ईक्ष्यावलोक्य संभ्रमादेवायमपपयोगोऽपि भक्तिरसपरिपो षकत्वाद्वतुर्गुण एव हापितः'कासि हे सुश्रु' इति भट्टिरित्यादिवदिति ज्ञेयम् ] ॥५२॥ तथेति स गौडपादः माहेत्यनुकृष्य संबन्धनीयम् । अथापास्तमोहे चिरंजीविमु नावन्ताधिं गते सत्यसावेतं वृत्तान्तं शिष्येभ्यो मुदा संश्रावयंस्तां रात्रिमनैषीत् ॥५३॥ अथ प्रात:काले श्रीशंकरः शिष्यैः सह नित्यकर्तव्यं गङ्गायां विविवत्संपाद्य तस्यास्तीरे निदिध्यासनलालसोऽभूदेतस्मिन्नन्तरे लोकवातोऽश्रूयत ॥ ५४ ॥ तामेवाऽऽह । जम्बूद्वीपमिति । शालिनी वृत्तम् ॥ ५५ ॥ मण्डपसंबन्धिभिश्चतुर्भिर्द्धरैर्युक्तं तस्या देव्या गेहं यस्मिन्गेहे सर्वज्ञपीठं यत्राऽऽ रोहे सति सज्जनानां मध्ये सर्वज्ञो भवति । सर्वज्ञादन्ये सर्वेऽपि यद्वेहं प्रवेष्टुमपि न क्षमन्ते । यद्वा यदेवंभूतं तद्देव्या गेहमित्यन्वयः ॥ ५६ ॥ दाक्षा दाक्षिणात्याः पिनद्धं तद्वारं नोद्धाटयन्ति ॥ ५७ ॥ तस्या वार्ताया इदं प्रमाणं मातुमिदं मानं न वेति निश्चेतुमिच्छंस्तद्वारमुद्धाटयितुं काश्मीरदेशाय जगाम ।। ५८ ।।
- शुकर्धिमेवयेति तु पठितुं युक्तम् ।