[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासैवलितः ॥ द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ॥ तां किंवदन्तीं विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥ ५९ ॥ चादिब्रातगजेन्द्रदुर्मदघटादुर्गर्वसंकर्षण श्रीमच्छंकरदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ॥ दूरं गच्छत वादिदुःशठगजाः संन्यासदंष्ट्रायुधो चेदान्तोरुवनाश्रयस्तदपरं द्वेतं वनं भक्षति ॥ ६० ॥ करटतटान्तवान्तमदसौरभसारभर स्वलदलिसंभन्नमस्कलभकुम्भविजूम्भिबलः ॥ हरिरिव जम्बुकानमददन्तगजान्कुजना नपि स्वलु नाक्षिगोचरयतीह यतिर्हतकान् ॥ ६१ ॥ संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदे ।। कवाटमुद्धाट्य निवेष्टुकामं ससंभ्रमं वादिगणो न्यरौत्सीत् ।॥ ६२ ॥ ६११ किलेति प्रसिद्धं दाक्षिणात्यं द्वारं पिनद्धं यत् इह भूमौ दाक्षिणात्या विद्वांसो नैव सन्तीति किंवदन्तीं जनश्रुतिं विफलां विधातुं जगाम । आख्यानकी वृत्तम् ॥ ५९ ॥ वादिसमूहा एव गजेन्द्रास्तेषां दुर्मदघटानां यो गर्वस्तं सम्यकर्षतीति तथा स चासौ श्रीमच्छंकरदेशिकेन्द्रलक्षणो मृगेन्द्रः सर्वार्थविदायात्यतो हे वादिदुःशठगजा दूरं गच्छत । किं करोतीति चेत्संन्यासलक्षणदंष्ट्रायुधो वेदान्तलक्षणबृहद्वनाश्रयो वेदान्तादन्यद्वैतपतिपादकशास्त्रलक्षणं वनं भक्षतीत्यध्वनि संश्रावयन्नितिव्यवहितेना न्वयः । शार्दूलविक्रीडितं वृत्तम् ॥ ६० ॥ करटतटान्ताद्रजगण्डतटप्रौन्तभागादुद्वामितमदसौरभसारभरेण स्खलद्भिरलिभिः संभ्र मति गजकुम्भे विजूम्भि स्फुरद्वलं यस्य स सिंहो यथा क्षुद्रौन्सृगालान्मददन्तवर्जिता न्गजांश्च नाक्षिगोचरयति न प्रतिगणयति तथेह लोके यतिनिन्दितान्कुत्सितजनान्ना क्षिगोचरयति न गणयति । ‘यदि भवतो नजौ भजजला गुरुर्मर्कटकम्’ ॥ ६१ ॥ इत्येवं मार्गे संश्रावयन्देशिकेन्द्रः श्रीदक्षिणद्वारभूमिं प्राप्तवान् । ततः कॅवाटमुद्धाय्य मवटुकामं ससंभ्रमं तं वादिगणो निरुद्धवान् । उपजातिवृत्तम् ॥ ६२ ॥
- घ. कपाट' । २ घ. "प्रान्तादु' । ३ ग. 'द्राञ्शुगा' । ४ घ. ‘न ग* ॥ ५ ग. घ. 'ति ।
हयदशभिर्नजौ” । ६ घ. 'भूमिमाप्त' । ७ घ. कपाट ।