पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तत्राऽऽह देशिकवरः श्रृणु रोचते चे जीवादिपञ्चकमभीष्टमुदाहरन्ति ॥ तच्छब्दवाच्यमिति जैनमतेऽप्रशस्ते यद्यस्ति बोदुमपरं कथयाऽऽशु तन्मे ॥ ७८ ॥ दत्तोत्तरे वादिगणे तु बाह्ये बभाण कश्चित्किल जैमिनीयः ॥ शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज न्वम् ॥ ७९ ॥ नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्रदूपं शब्दजालं च नित्यम् ॥ द्रव्यं व्यापीन्यबुवचैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥ ८० ।। शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्त । ततो विवेशान्तरभूमिभागम् ॥ ८१ ॥ ६१५ तैजवास्तिकायः पुद्रलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय इति शब्दैर्वाच्यं जीवादिपञ्चकमभीष्टमित्युदाहरन्ति । तत्पृष्टमुक्त्वाऽमशास्ते जैनमतेऽ परमपि यज्ज्ञातुमस्ति तच्छीघ्र वदत्याह । जैनमत इति । वसन्ततिलका वृत्तम् ॥ ७८ ॥ एवं वेदबाह्य वादिगणे तु दत्तोत्तरे सति कश्चिजैमिनिमतावलम्ब्यध्वरमीमांसको जगाद । जैमिनीये मते शब्दः किंस्वरूपः । किंशब्दार्थमाह । द्रव्यं गुणो वेति । तथाच शब्दस्वरूपमुक्त्वा ततो ब्रज । उपजातिवृत्तम् ।। ७९ ।। नित्या वर्णा व्यापकाः श्रोत्रेन्द्रियवेद्या यदूपं शब्दजालं तच नित्यं द्रव्यं व्यापीति जैमिनीया अबुवान्नित्येवं तं जैमिनीयं देशिकेन्द्रः प्रोक्तवान् । शालिनी वृत्तम् ॥ ८० ।। सर्वेष्वपि शास्त्रेषु प्रत्युत्तरं दत्तवन्तं तं श्रीशंकरं ते वादिनः सम्यगपूजयन्द्रारं समुद्धाव्य मार्गे च ददुः । तदनन्तरमन्तरभूमिभागं विवेश । उपजातिवृतम् ॥ ८१ ॥ १ ग. 'नीयम' । २ ग. घ. नित्यद्र'।