[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नास्मिञ्शरीरे कृतकिल्बिषोऽहं जन्मप्रभृत्यम्ब न संदिहेऽहम् ।। व्यधायि देहान्तरसंश्रयाद्य न्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६ ॥ इत्थं निरुत्तरपदां स विधाय देवी सर्वज्ञपीठमधिरुहा ननन्द सभ्यः ॥ संमानितोऽभवदसौ विबुधैश्च वाण्या गाग्र्या कहोलमुखरैरिव याज्ञवल्क्यः ॥ ८७ ॥ वादप्रादुर्विनोदप्रतिकथनमुधीवाददुर्वारतर्क न्यकारस्वैरधाटीभरितहरदुपन्यस्तमाहानुभाव्यः । सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८ ।। एवमुक्तः श्रीशंकर उवाच । नेति । अहमपि न संदिहेऽम्बायास्तव संदेहो नास्तीति किमु वक्तव्यमित्यतिशयेन संबोधयति । हेऽम्बेति । यत्तु त्वं चाङ्गना इत्यादि तत्र शृणु यत्कर्म देहान्तरसंश्रयाद्विहितं तेन कर्मणाऽन्योऽयं देहो न लिप्यते । लोकशास्त्रपसिद्धं चैतत् । उपजातिवृत्तम् ॥ ८६ ॥ सरस्वत्या पण्डितैश्च पूजितोऽभवत् । यथा गाग्र्या कहोलादिभिश्च याज्ञवल्क्य स्तद्वत् ।। ८७ । [ कहोलेति । कहोल एव मुखरः शुद्धाद्वैतात्मानुभवाप्त्या वास्त विकातिवक्ता येषां तैः ] ।। ८७ ।। अथ भगवत्पादस्य शारदापीठवासं वर्णयति । वादेन प्रादुष्प्रकटतां गता ि विनोदो येषां ते च ते प्रतिकथनसुवियः पतिवादिपण्डिता मण्डनमिश्रपमुखास्तैः साकं यो वादस्तत्र ये दुवोरास्तक अविज्ञाततत्वेऽर्थे कारणोपपात्ततस्तत्त्वज्ञानार्थमृहस्तर्क इत्युक्तलक्षणा स्तेषां न्यकारे तिरस्कार वैराभिः स्वतत्राभिर्वाटीभिर्युद्धयात्राभिर्भरताभिव्यप्ताभिर्हरि द्भिर्दिग्भिरुपन्यस्तं वर्णितं माहानुभाव्यं महाप्रभावत्वं यस्य स त्वं एव पर्वजोऽत बहुभिः समस्तगुणशालित्वेनात्यन्तं संभावितोऽस्मिन्पीठे वस्तुमहीं योग्य इति स्फारभा रत्या विशालया वाचाऽमोघश्लाघया सफलप्रशंसया सवैजघुष्यमाणो भृशं घुप्यमाणो यतिपतेः श्रीशंकरस्य शारदापीठवासो जयति सर्वोत्कर्षेण वर्तते । स्फारं यथा तथा भारत्या सरस्वत्याऽमोघश्लाघया जोघुष्यमाण इति वा । स्वग्धरा वृत्तम् । । *** ॥ १ क. घ. त्यनुश । २ घ. 'था स्यात्तथा।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति