[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । कचभरवहनं पुलोमजाया कतिचिदहान्यपगर्भकं यथा स्यात् । गुरुशिरसि तथा सुधाशनाः स्व स्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥ ९२ ॥ इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं निजमतगुरुतायै नो पुनर्मानहेतोः ॥ कतिचन विनिवेश्याथष्र्यशृङ्गाश्रमादौ मुनिरथ बदरीं स प्राप कांश्चत्स्वशिष्यैः ॥ ९३ ॥ दिवसान्विनिनाय तत्र कांश्चि त्स च पातञ्जलतत्रनिष्ठितेभ्यः । कृपयोपदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥ ९४ ।। नितरां यांतरराडुराजकर प्रकरमचुरप्रसरस्वयशाः ।। स्वमय समय गमयत्रमय न्हृदयं सदयं मुधियां शुशुभे ॥ ९५ ।। वसान्यपगर्भकमपगतेषद्विकसत्पुष्पकं यथा स्यात्तथा गुरोः श्रीशंकरस्य शिरसि कल्प वृक्षपुष्पाणि हर्षेणाभ्यवर्षन्सम्यग्वृष्टिं कृतवन्तः । पुष्पिताग्रा वृत्तम् ॥९२॥ [अपगर्भकं माल्यं “मालास्रजौ मून्नेि केशामध्ये तु गर्भके' इत्यमरादपगतो गर्भकः कुन्तलोत्तंसीकृ तसंतानादिकुसुमविशेषो यस्मात्तत्तथेत्यर्थः । अत्रातिशयोक्तिरलंकारः ] ॥ ९२ ॥ इत्येवमातितुष्टो मुनिः श्रीशंकरः सर्वज्ञपीठमध्युष्य तैदुपरि स्थित्वा तदपि निज मतस्य गुरुतायै श्रेष्ठत्याय न पुनर्मानहेतोरथानन्तरं कतिचन सुरेश्वरादाञ्शिष्या ष्यशृङ्गाश्रमादौ विनिवेश्याथ स मुनिर्बदरीं बदरिकाश्रमं कैश्चित्स्वशिष्यैः साहितः सन्माप मालिनी वृत्तम् ॥ ९३ ॥ [ निजेति । औद्वैतमतमहत्त्वार्थम् ] ॥ ९३ ॥ अथ तत्र यत्कृतवांस्तदाह । तत्र बदर्या स च श्रीशंकराचाय विजिताश्च ते त्याजितसर्वदर्शनाश्चेति ते तथाभूतेभ्य: पातञ्जलशास्त्रनिष्ठितभ्यः कृपया स्वकृतं भाष्यमुपदिशन्सन्कानिचिद्दिवसानि व्यतिक्रान्तवान् । वसन्तमालिका वृत्तम् ॥ ९४ ॥ उडुराजस्य चन्द्रस्य करप्रकरः किरणकलापस्तद्वत्प्रचुरः प्रसरो यस्य तथाभूतं १ क. पुष्पं य' । २ । ग. उपरि
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति