पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ७८ ६२१ आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा विस्मेराणि दिगन्तराणि रचितान्यत्यदुतैः क्रीडितैः । भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमातन्यताम् ॥ ९९ ॥ पारिकाङ्क्षीश्वरोऽप्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।। योगिवृन्दाधिपः प्राप केदारकम् ॥ १० ॥ तत्रातिशीतार्दितशिष्यसंघ संरक्षणायातुलितप्रभावः ॥ तप्तोदकं प्रार्थयते स्म चन्द्र कलाधरात्तीर्थकरप्रधानः ॥ १०१ ॥ कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः स न्संतप्तवारिलहरीं स्वपदारविन्दात् ।। प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदञ्चति तप्ततोया ॥ १०२ ।। किमारभ्यताम् । तत्रेन्दुभाश्चन्द्रज्योत्स्ना पटीरश्चन्दनम् । हीरो वज्रम् । विहरनीहा रश्चलतुषारः । शार्दूलविक्रीडितं वृत्तम् ॥ ९८ ॥ किंच साधीयसा बाढतरेणातिदृढेन भूयसा यशसा दिगन्तराण्याक्रान्तानि व्याप्तानि । अन्तिकबाढयोर्नेदसाधाविति बाढशब्दस्य साधादेशः“बाढं दृढपतिज्ञयोः' इति मदिनी । तथाऽत्यन्तमाश्चर्यरूपैरतिमानुषैः क्रीडितैर्दिगन्तराणि विस्मेराणि विस्म यशीलानि रचितानि । तथा स्वभक्ताः स्वस्वेप्सितभोगमोक्षप्राप्युपायैः कृतार्थीकृतास्त स्मादेवं कृतवता यतिराजेनाधुनेतोऽन्यत्सैौजन्यं किमातन्यताम् ।। ९९ ॥ पारिकाङ्क्षीश्वरोऽपि तापसेश्वरोऽपि ‘तपस्वी तापसः पारिकाङ्क्षी' इत्यमरः । केदारकं प्राप । तं विशिनष्टि । आपदुद्धारकं सेवमानानामतुलायाः स्वस्तेर्विम्तारकं पापदावामिपरितापस्य संहारकम् । स्रग्विणी वृत्तम् ।। १०० ।। तत्र केदारकेऽतिशीतेन पीडितस्य शिष्यसमूहस्य संरक्षणार्थमतुलप्रभावः शास्रक वृषु मधानः श्रीशंकराचार्यश्चन्द्रकलाधरान्महादेवात्तक्षेोदकं प्रार्थयामास । उपजाति वत्तम् ।। १०१ ।। कमेन्दिवृन्दस्य भिक्षुसमुदायस्य पतिः श्रीशंकराचार्यस्तेन पार्थितः सन्गिरिशः शिवः १ ग. 'तांश * । २ क. ग. "करस्ते ।