पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । [ सर्गः १६ ] इतिकृतसुरकार्य नेतुमाजग्मुरेनं रजतशिखरिशृङ्गं तुङ्गमीशावतारम् । विधिशतमस्वचन्द्रोपेन्द्रवाय्वमिपूर्वा सुरनिकरवरेण्या: सर्षिसंघाः ससिद्धाः ।। १०३ ॥ संतप्ततोयलहरीं नदीं स्वचरणारविन्दात्प्रवर्तितवान् | या तसतोया यतिनाथकीर्ति विस्तारयन्त्यद्यापि तत्रं समुदञ्चति समुद्रच्छात समुलसतीति वा । वसन्ततिलका वृत्तम् || १०२ || इत्येवं छतं देवकार्ये येन तमेनमीशावतारं श्रीशंकरं तुङ्गमुन्नतं कैलासगिरि शृङ्ग पति नेतुं ब्रहणेन्द्रादयः सुरसमुदायपवरा ऋषिसंधैः सिद्वैश्च सहिता आजग्मुः । मालिनी वृत्तम् ।। १०३ । [ ईशेति । ईश्वरावतारम् । विधीति । विधिर्बह्या । शतमख इन्द्रः । गौरीरमाणावतारत्वं तु श्रीशंकराचार्थस्योक्तं शिवरहस्ये नवमांशे षोडशाध्यायं | स्कन्द उवाच

  • तदा गिरिजया पृष्टत्रिकालज्ञत्रिलोचनः । भविप्यच्छिवभक्तानां भक्ति संवीक्ष्य

विस्मये ।। १ । ‘विस्मये जात सति गिरिजया पृष्ट इति संबन्धः' । मौलिमान्दोलय देवो बभाषे वचनं मने । शृणु त्वमेभिर्गणपैर्मुनिशिप्यै: सुरैस्तथा ॥ २ ॥ प्रभावं शिवभक्तानां भविप्याणां कलावपि । ईश्वर उवाच शृणु देवि भविष्याणां भक्तानां चरितं कलौ ॥ ३ ॥ वदामि संग्रहेणैव श्रवणाद्भ क्तिवर्धनम् । गोपनीयं प्रयत्नेन नाऽऽग्व्येयं यस्य कस्यचित् ॥ ४ ॥ पापन्न पुण्यमा युप्यं श्रोतृणां मङ्गलावहम् । पापकर्मकनिरतान्विरतान्सर्वकर्मसु ॥ ५ । वर्णाश्रमपरि भ्रष्टान्धर्मप्रस्रवणाञ्जनान् । कल्यब्धौं मज्जमानांस्तान्दृष्टाऽनुक्रोशतोऽम्बिके ॥ ६ ॥ मदंशजातं देवेशि कलावपि तपोवनम् । केरलेषु तदा विपं जनयामि महेश्धरि ॥ ७ ॥ तस्यैव चरितं तेऽद्य वक्ष्यामि शृणु शैलजे । कलाविमे महादेवि सहस्रद्वितयात्परम् ||८|| सारस्चतास्तथा गडा मिश्राः काणविनो द्विजाः । अममीनाशाना देवि भार्या वर्तानुवासिनः || ९ ॥ औत्तरा विन्ध्यनिल-था भविष्यन्ति महातले । शाब्दार्थज्ञानकु शलास्तर्ककर्कशाबुद्धयः ॥ १० ॥ जैना बुद्धा बुद्धियुता मीमांसानिरताः कलैं। । वेद बाधदवाक्यानामन्यथव प्ररोचकाः ।। ११ । ‘वेदस्य बाधदान्यद्वैतबोधप्रदान यानि वाक्यानि तेषामित्यर्थः । प्रत्यक्षवादकुशलाः शल्यभूताः । मिश्राः शास्त्रमहाशा खैरौद्वताच्छेदनोऽम्बिकं ॥१२॥ कमेव परमं श्रेयो नैवेशः फलदायकः । इति युक्तिपरामृ