पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । [ सर्गः १६ ] विद्युद्वर्लीनियुतसमुदारब्धयुद्वैर्विमानै संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ॥ स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं मन्दारोत्थैः कुमुमनिचयैरधुवन्नर्चयन्तः ॥ १८४ ॥ महेशा त्वया जीवत्येवमेवं विचित्रम् । त्वय्येवाऽन्ते संविशत्येव विश्धं त्वा वैको वा स्तुवते स्तव्यमीशम् ॥ ३३ ॥ किंचिज्ज्ञात्वा सर्वभावस्य बुद्धया त्वामात्मानं वेद्मि देवं महेशम् ।। ३४ ।। इति शंकरवाक्येन विश्वेशारूयादहं तदा ॥ प्रादुर्बभूव लिङ्गात्स्वादलिङ्गोऽपि महे श्धरि ॥ ३५ ॥ 'पादुर्भविष्यामीति वाच्ये प्रादुर्बभूवेत्यार्षम्' । त्रिपुण्डूविलपत्फालश्च द्रार्धक्रुतशेखरः ॥ नागाजिनोत्तरामङ्ग नीलकण्ठस्त्रिलोचनः ।।३६॥ वरकाकोदरान द्धराजद्वारस्त्वयाऽम्बिकं ॥ तमब्रूयां महादेवि प्रणतं यतिनां वरम् ॥ ३७ ॥ शिष्यै चतुर्भिश्च युतं भस्मरुद्राक्षभूषणम् ॥ मदंशास्त्वं सुजातोऽसि भुवि चाँद्वैतसिद्धये ॥ ३८ ॥ पापमिश्राश्रिते मार्ग जैन दुर्बुद्धिबौद्धकैः । भिन्ने वेदैकसंसिद्धे औद्वैते द्वैतवाक्यतः ॥ ३९ ॥ तद्वेदगिरिवज्रस्त्वं संजातोऽसि मदंशतः । द्वात्रिंशत्परमायुस्ते शीघ्रधं कैलासमावम ॥ ४० || एतत्प्रति गृहाण त्वं पञ्चलिङ्गं सुपृजय । भस्मरुद्राक्षसंपन्नः पञ्चाक्षरपरायणः ॥ ४१ ॥ शत रुद्रावर्तनैश्च तारेण भपितेन च । बिल्वपत्रैश्च कुसुमैनेवेधैर्विविधैरपि ॥ ४२ ॥ त्रिवारं सावधानेन गच्छ सर्वजयाय च ॥४३॥ त्वदर्थे कैलापाचलवरसुपालीगतमहा समुद्यचन्द्राभं स्फटिकधवलं लिङ्गकुलकम् । समासीनं द्योतद्विमलकमलैरर्चय परं कलै। लिङ्गाचर्चायां भवति हि विमुक्तिः परतरा ॥ ४४ ॥ स शंकरो मां प्रणनाम मस्करी । मयस्करं तस्करवर्यमार्गे। संगृह्य लिङ्गानि जगाम वेगाढूमौ सुबुद्वा तमिश्रजैनान्॥४५॥ तद्योगभोगवरमुक्तिसुमोक्षयोगलिङ्गार्चनात्प्राप्तजयस्वकाश्रयम् । तान्वै विfiग्य तरमाऽक्षतशास्त्रवादैर्मिश्रान्स काश्यमथ सिद्धिमाप' इति ॥ ४६ । एतत्क थाजालं बृहच्छंकरविजय एव श्रीमदानन्दज्ञानाख्यानन्दगिरिविरचिते द्रष्टव्यमिति दिक् ] ।। १०३ ॥ आगत्य यत्कृतवन्तस्तदाह । विद्युद्वलीनां नियुतैर्लः सम्यगाग्ब्वं युद्धं यैर्विद्यु द्वलीनियुततुल्यैरिति यावत् । तथाभूतैः संख्यारहितैर्विमानैः पपादि तत्क्षण आभोग पूर्ण गगनमाकाशमाच्छादयन्तो यतीशवेषं त्रिपुरमथनं महादेवं स्तुत्वा मन्दारोत्थै पुष्पसमुदायैरर्चयन्तम्तं ब्रह्मादयो देवा अबुवत्रुक्तवन्तः । मन्दाक्रान्ता वृत्तम् ॥१०४ ॥