पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । भवानाद्यो देवः कवलितविषः कामदहन पुरारातिर्विश्वप्रभवलयहेतुत्रिनयनः ॥ पदर्थं गां प्राप्तो भवमथन वृत्तं तदधुना तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ।। १०५ ॥ उन्मीलद्विनयप्रधानमुमनोवाक्यावसाने महा देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति । शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा दुक्षा शारदवारिदुग्धवरटाहंकारहुंकारकृत् ॥ १०६ ॥ इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृद्वैः स्तूयमानः प्रसूनै ६२५ आरुह्योक्षाणमग्रयं प्रकटितमुजटाजटचन्द्रावतंस शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नैज प्रतस्थे ॥ १८४३ ॥ यदबुवंस्तदुदाहरति । भाद्यः सर्वकारणभूतो देवो द्योतनात्मकः सकलदेवादिर्जग द्रक्षणाय कवलितं ग्रसितं विषं समुद्रमथनादुत्थं हालाहलाख्थं येन पुनश्च कामदहन पुरारातित्रिपुरसंहारकर्ता विश्वोत्पत्तिलयकारणं त्रिनेत्रो महादेवो भवान्यद' वेश्म यदास्थापनार्थ भूमिं प्राप्तस्तदधुना हे संमृतिनिवारक वृत्तं संपत्रं तत्तस्मादधुना सपदि द्राग्घे गिरिशास्मात्प्रियार्थे स्वर्गमायाहि । शिखरिणी वृत्तम् ॥ १०५ ॥ [ स्वर्गे वग पलक्षितं कैलासं प्रत्यायाहीति योजना ] ॥ १०५ ।। विकसद्विनयप्रधानानां सुमनसां देवानां वाक्यस्यान्त उन्मीलतो विनयपवानसु मनोवाक्यस्येति वा । महादेवे श्रीशंकरे स्वाकृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति साति ममथै रुद्रगणैः परिष्कृतं भूषितं वपुर्यस्य स शैलादिरुक्षा नन्द्याख्यो वृषस्त त्क्षणाच्छूीशंकराचार्थस्याग्रे तस्थौ । तं विशिनष्टि । शरत्कालंानजलस्य दुग्वस्य वर टाया हंसयोषितश्चाहंकारस्य शैक्ल्याहंभावस्य हुंकारटैद्भत्र्सनकृत्तेभ्योऽपि शुक्रु इत्यर्थः । ‘हंसस्य योषिद्वरटा' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ १०६ ॥ अथ संपादित समस्तपुरकार्यस्य श्रीशंकराचार्यस्य स्वधामारोहणं वर्णयति । इन्द्रो पेन्द्रपधानैत्रिदशपरिवृढेर्देवाविपैः स्तूयमानः पुनश्च दिवि भवैः पुष्पैरच्र्यमानः कमलजेन ब्रह्मणा दत्तो हस्तावलम्बो यस्मै सोऽयं श्रेष्ठं वृषं नन्दिनं समारुह्य पकटिी जटाजूटचन्द्रावतंौ येन स ऋषिभिः समुदितमालोकशाब्दं बन्दिभाषणशब्दं शृण्वन्स्वीयं धाम प्रतस्ते । ‘आलोकम्तु पुमान्द्योते दर्शने बन्दिभाषणे' इति मेदिनी । स्रग्धरा वृत्तम् ।। १८४३ ॥