पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

द्वित्राणि वर्णानि वदत्यमुष्मि-
द्वैतिप्रवीरा दधुरेव मौनम् ॥
मुद्दा चलत्यङ्धिसरोरुहाभ्यां
दिशः पलायन्त दशापि सद्यः ॥ ८७० ॥
उदचारयदर्भको गिरः
पदचारानतनोदनन्तरम् ।
विकलोऽभवदादिमात्तयो:
पिकलोकश्रमान्मरालकः ॥ ८८ ॥
नवविद्रुमपछवास्तृता
मिवकाश्मीरपरागपाटलाम् ।।
रचयन्नचलां पदत्विषा स
चचारेन्दुनिभः शनैः शनैः ॥ ८९ ॥




ददार । अत्र ताडनविभेदैनयेोहेंतुकार्ययोर्विरुद्धभिन्नदेशत्वादसंगतिरलंकारः ।

‘विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः’ इत्युक्तेः ॥ ८६ ॥


 द्वित्राणि वर्णान्यमुष्मिन्बाले वदति सति 'द्वैतिपवीरा मौनमेव दधुः । चरणकम
लाभ्यां मुदा चलति सति ते सद्यो दशापि दिशः पलायन्त पलायनं कृतवन्तः ।

‘चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे' ॥ ८७ ॥


 [ वर्णानि ‘वर्ण तु वाऽक्षरम्' इत्यमरादक्षराणीत्यर्थः ] ॥ ८७ ॥
 अर्भको गिर उदचारयत्प्रवर्तितवाननन्तरं पदचारानतनोद्विस्तारितवांस्तयोर्वाणीप्र
वर्तनपादचारविस्तारयोर्मध्ये गिरः प्रवर्तनापिकलोकः सर्वोऽपि कोकिलो विक
लोऽभवत् । चरमादन्त्यात्पादचारविस्तारान्मरालको हंसो विकलोऽभवत् । वियो
गिनी वृत्तम् ॥ ८ ॥
 अचलां भूमिं पादत्विषा चरणकान्त्या नवीनैर्विद्रुमस्य रत्नवृक्षस्य पलवैरास्तृतामिव

विदुमी रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्’


 इति मेदिनी । काश्मीरपरागैः पाटलां धेतरक्तामिव रचयंश्चन्द्रतुल्यः शिशुः शनैः
शनैश्चचार ॥ ८९ ॥ [ इवकारोऽयं काकाक्षिगोलकन्यायेन काइमीरेत्यत्राप्यन्वेति ।
पदेति । चरणकान्त्या रचयन्सन्नत एव । इन्दुनिभः सद्यः समुदितशरद्राकानाय
कसदृश इत्यर्थः । सोऽपि तत्कालं किंचित्पाटलस्वपाददीप्त्या पृथ्वीं क्षणिकारक्तां
करोत्येवेति भावः ] ॥ ८९ ॥


१ स्त्र. 'न्द्वैतप्र'।२ ग. 'दयो'।३ ख. द्वैतप्र'।