पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

सर्गे प्राथमेिके प्रयाति विरतिं मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भगेऽवतीर्णो भुवि ॥ १९६१ ॥
इति श्रीमाधवीये तद्वतारकथापरः ॥
संक्षेपशंकरजये सर्गः पूर्णो द्वितीयकः ॥ २ ॥


अथ तृतीयः सर्गः ।


इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ॥
दिविषत्प्रवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥ १ ॥




[ नागेन भोगीन्द्रयज्ञोपवीतविद्वेनेत्यर्थः । मूति । मस्तकावच्छेदेन पार्थमहार
सूचकत्रिशूलाकाररेखात्रयेणेत्यर्थः । अन्यथा तदनौचित्यातू ] ॥ ९२ ॥
 प्राथमिके सनकादिसर्गे विरतिं प्रयाति सति मार्गे दौर्गते दुर्गतिसंपादके स्थिते सति
स्वर्गे दुर्गमतां दुष्प्राप्यतामुपेयुषि प्राप्तवाति सत्यपवर्गे मोक्षे भृशमत्यन्तं दुर्गे दुष्पापे
सति देहभृतां जीवानां वर्गे समुदाये निसर्गात्स्वभावादेव मलिने सति तथाच विश्धक
तुराखिलेऽपि सर्गे जाता उपसर्गा नाशकराणि विन्नानि यस्य तथाभूते सति तदीयव
पुषा शाङ्कराचार्यविग्रहात्मना भर्गः सदाशिवो भूमावतीर्णः ॥ ९३ ॥ [ सर्ग इति ।
प्राथमिके सर्गे प्रकृतैतत्काव्यस्याऽऽदिमसर्ग इत्यर्थः ] [ पक्षे कृतादि
द्वापरान्तसृष्टिसमाप्तौ सत्यामित्यर्थः । अत एव दौर्गते दुर्गतेरयं दौर्गतस्तास्मन्नरका
दिदुर्गतिमापक इति यावत् ] ॥ ९३ ॥
 इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावसंसराम
 कुमारसूनुधनपतिसूरिकृते शंङ्करविजयण्डिडिमे द्वितीयः सर्गः ॥ २ ॥

अथ तृतीयसर्गस्य टीका ।


 एवं शिवावतारमुपवण्यै तत्तद्देवावतारमुपवर्णयितुमुपक्रमते । इतीति । एवं बालच
न्द्रशेखरे शिवे बालत्वं प्राप्त साति तदनन्तरं सुरोत्तमा भुवि षट्शास्त्रविदां सतां कुले
प्रजज्ञिरे प्रादुर्बभुवुः । वियोगिनी वृत्तम् ॥ १ ॥[कुत्रचित्षट्शास्रोपलक्षितसकलशाब्द
ब्रह्मवित्त्वलक्षणवास्तवश्रोत्रियत्वे सत्यपि प्रतिबन्वविशेषवशादपरोक्षब्रह्मबोधाभावसंभ
वात्तद्वयुदासाथै सतामिति विशेष्यपदम् । तावन्मात्रोक्तौ च लोकानुग्रह्मयोजक३ब्द
ब्रह्मविश्वरूपोक्तश्रोत्रियत्वाभावापत्तिरिति षट्शास्त्रेति विशेषणपदमप्युपात्तनिदि त
 रवम्]॥१॥