पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

दृष्टा तदीयौ पितरौ कदाचि
दपृच्छतां तौ परिकर्शिताङ्गौ ॥
वपुः कृशं ते मनसोऽप्पगवें
न व्याधिमीक्षे न च हेतुमन्पम् ॥ २० ॥
इष्टस्य हानेरनभीष्टयोगा
द्रवन्ति दुःखानि शरीरभाजाम् ।।
वीक्षे न तौ द्वावपि वीक्षमाणो
विना निदानं नहि कार्यजन्म ॥ २१ ॥
न तेऽत्यगादुद्वहनस्य कालः
परावमानो न च निःस्वता वा ॥
कुटुम्बभारो मयि दुःसहोऽयं
कुमारवृत्तेस्तव काऽत्र पीडा ॥ २२ ॥
न मूढभावः परितापहेतु
पराजितिर्वा तव तन्निदानम् ।।
विद्वत्सु विस्पष्टतयाऽग्रपाठा
त्मृदुर्गमार्थादपि तर्कविद्रिः ॥ २३ ॥




 कदाचित्तदीयौ पितरौ परिकर्शितशरीरौ तौ दृष्टा पृष्टवन्तौ। किं तदिति तत्राऽऽह ।
शरीरं ते कृशं मनसश्चागर्वस्तदेतत्किनिमित्तमहं तु रोगं वाऽन्यद्वैतन्निमित्तं नेक्षे ॥२०॥
[ इतः परं भोः पुत्रि भोः पुत्रेति संबुध्यध्याहारः प्रतिमश्र पक्षद्वयेऽपि यथाक्रमं
बोध्यः सर्वत्र ] ॥ २० ॥
 नच हेतुमन्यमित्युक्तं विवृणोति । इष्टवियोगादनिष्टसंयोगाद्वा देहवतां दुःखानि
भवन्ति तौ द्वावपि वीक्षमाणो विचार्यमाणोऽहं न वीक्षे । तर्हि निदानं विनैवैतत्स्या
दिति चेत्तत्राऽऽह । निदानं कारणं विना । हि प्रसिद्धम् । कार्यस्य जन्म न भवति
तस्मान्मददृश्यमेतन्निदानं वक्तव्यमित्यर्थ. । भाख्यानकी वृत्तम् ॥ २१ ॥
 निदानान्तराण्यपि न सन्तीत्याह । तव विवाहस्य कालोऽपि नैवातिक्रान्तः परे
भ्योऽपमानोऽपि तव नास्ति निर्धनताऽपि ते न भवति किंच दुःसहोऽयं कुटुम्बभरोऽपि
मयि वर्ततेऽतस्तवाव लोके का पीडा न काऽपीत्यर्थः । उपेन्द्रवज्रा वृत्तम् ॥ २२ ॥
[ कुमारेति । भावपधानोऽयं निर्देशः । कौमारावस्थावस्थितरित्यर्थः ] ॥ २२ ॥
 किंच संतापहेतुमूर्द्धभावोऽपि तव नास्ति तथा संतापस्य कारणं पराजयोऽपि तव
मास्ति तत्र हेतुर्विद्वत्सु तर्कविद्धिरपि सुदुर्गमोऽर्थो यस्य तस्मात् । सुदुर्जयार्थादिवि