पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

भर्तुः समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ॥
किं वाच्य एष रहसीति तवोपदेशः
शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥ ७३ ॥
आयाति भर्तरि तु पुत्रि विहाय कार्य
मुत्थाय शीघ्रमुदकेन पदावनेकः ॥
कायों यथाभिरुचि हे सति जीवनं वा
नोपेक्षणीयमणुमात्रमपीह कं ते ॥ ७४ ॥
धवे परोक्षेऽपि कदाचिदेयु
गृहं तदीया अपि वा महान्तः ॥
ते पूजनीया बहुमानपूर्व
नो चेन्निराशाः कुलदाहकाः स्युः ॥ ७५ ॥




मित्यनेन वा संबन्धनीयम् । केवलं क्षन्तव्यमेव स त्वित्थमनेन प्रकारेण स्वयमेव शाम्य
ति प्रसन्ने च तस्मिन्हे वत्से चकितेव स्याः किं बहुना हेऽनघे सर्वमभीष्टं क्षमयैव सि
ध्याति न चेतरथा ॥ ७२ ॥ [ प्रसन्नेति स्मितमुखे सतीत्यर्थः । त्वं चकितेव तं
पश्येति शेषः । तत्र हेतुः । सिध्यतीति ] ॥ ७२ ॥
 तद्वदनं पुरुषान्तरमुखं समीक्ष्य दृष्टा । एष परपुरुषो रहस्येकान्ते । यतः परपुरु
षस्नेहाभाववत्यामपि स्रियामियं परपुरुषस्नेहवतीति शङ्का हार्दमान्तरं स्नेहं नाशयेत्
॥ ७३ ॥ [ अथ सुम्ब्रिाति प्रथमपद्यक्रियाविशेषणसूत्रितमवलोकनभाषणादिनियमं
स्पष्टयतः । भर्तुरिति । जातु कदाचिदपीत्यर्थः । ते तव न वाच्यो नैव संभाष्य
इत्यर्थः । किं त्वधो मुखतयैव संभाषणीय इति भावः ] ॥ ७३ ॥
 यथाभिरुच्यभिरुचिमनतिक्रम्य पादावनेक: पादपक्षालनं हे सात जीवनमणुमात्रम
पीह लोके कं सुखं वा ते तव नोपेक्षणीयम् ॥ ७४ ॥ [ कार्य धानोपस्करादिकृत्यं
विहाय । उदकेनोष्णजलेन पदावनेकः पादप्रक्षालनविशेषः कार्यः । तस्य स्वहस्ता
भ्यामेवेति शेषः । किंच यथाभिमतं वस्तु जीवनमुदकं वा शिशिरसुरभिमधुरतरं तस्मै
देयमित्यध्याहृत्य संबन्धः । फलितमाह । नेति । इह संसारे कान्ते भर्तरि विषये ।
शिष्टं तु स्पष्टमेव ] ॥ ७४ ॥
 धवे पत्यौ परोक्षे बहिर्गते सति । उपजातिवृत्तम् ॥ ७५ ॥