पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Secondary Word-Units 150. आत्मन् – (१) अध्यात्मम् । (२) अनात्मनः । (३) अन्तरात्मना । (४) अव्ययात्मा (५) असतात्मा । (६) आत्मकारणात् । (७) आत्मतृप्तः (८) आत्मपरदेहेषु । ( ५ ) आत्ममायया । (१०) आत्मयोगात् । (११) आत्मरतिः । (१२) आत्मवश्यैः । (१३) आत्मविनिग्रहः । (१४) आत्मविभूतयः । (१५) आत्मविशुद्धये । (१६) आत्मशुद्धये । (१७) आत्मसंभाविताः । (१८) आत्मसंस्थम् । (१९) आत्मौपम्येन । (२०) कामा- त्मानः । (२१) जितात्मनः । (२२) जितात्मा | (२३) ज्ञानविज्ञानतृप्तात्मा । (२४) तदारमानः । (२५) धर्मात्मा | (२६) नष्टात्मानः | (२७) नियतात्मभिः | (२८) परमात्मा । (२९) प्रयतात्मनः । (३०) प्रशान्तात्मा । (३१) प्रसन्नात्मा । (३२) ब्रह्म- योगयुक्तात्मा । (३३) महात्मनः । (३४) महात्मन् । (३५) महात्मा । (३६) महा- त्मानः । (३७) यतचित्तात्मा (३८) यतात्मवान् । (३९) यतात्मा । (४०) यता- त्मानः । (४१) युक्तात्मा । (४२) योगयुक्तात्मा | (४३) वश्यात्मना । (४४) विजि- तात्मनाम् । (४५) विजितात्मा । (४६) विदितात्मनाम् । (४७) विधेयात्मा । (४८) विमूढात्मा । (४९) विशुद्धात्मा । (५०) सन्न्यासयोगयुक्तात्मा । (५१ ) संशया- त्मनः । (५२) संशयात्मा । (५३) सर्वभूतात्मभूतात्मा । – ( १ ) [ विग्रहपद्धत्यै 'अधि’ (५) शब्दो दृष्टव्यः ] ( २ ) न आत्मा अनात्मा तस्य अनाश्मनः । (३- ५ ) [ विग्रहृपद्धतिभ्यः 'अन्तर्' (१), 'अव्यय', 'असक्त' (२) शब्दाः क्रमेण दृष्टव्याः]। ( ६ ) आत्मनः कारणम् आत्मकारणम् तस्मात् आत्मकारणात् । (७ ) आत्मनि (हृदये) यः तृप्तः सः आत्मतृप्तः। (८) आत्मनः परेषां च देहाः आत्मपरदेहाः, तेषु आत्मपरदेदेषु । (९) आत्मनः (स्वस्य) माया आत्ममाया, तथा आत्ममायया । ( १० ) आत्मनः ( स्वस्य) योगः आत्मयोगः तस्मात् आत्मयोगात् । (११ ) आत्मनि (स्वस्मिन्) रतिः यस्य सः आत्मरतिः । (१२) आत्मानं वश्यानि आत्मवश्यानि, तैः आत्मवश्यैः । ( १३ ) आत्मनः (मनसः इन्द्रियाणां च) विनिग्रहः आत्म विनिग्रहः । (१४ । आत्मनः (स्वस्य) विभूतयः आत्मविभूतयः । (१५ ) आत्मनः ( स्वस्य अन्तः- करणस्य) विशुद्धिः आत्मविशुद्धिः तस्यै आत्मविशुद्धये । ( १६ ) आत्मनः (स्वस्य अन्तःकरणस्य) शुद्धिः आत्मशुद्धिः तस्यै आत्मशुद्धये । ( १७ ) आत्मना (स्वेन ) एव संभाविताः आत्मसंभाविताः । ( १८) आत्मनि (हृदये) संस्थितम् आत्मसंस्थम् । ( १९ ) आत्मना औपम्यम् (उपमायाः भावः) आत्मौपम्यम् तेन आत्मौपम्येन । ( २०) कामः आत्मा ( स्वभावः) येषां ते कामात्मानः । (२१-२२) जितः आत्मा (स्वभावः), येन सः जितात्मा; तस्य जितात्मनः । ( २३ ) ज्ञानेन विज्ञानेन च तृप्तः आत्मा (हृदयं ) यस्य सः ज्ञानविज्ञानतृप्तात्मा | ( २४ ) तदेव ( तदभिन्नः ) आत्मा (अन्तःकरणं) येषां ते तदात्मानः । ( २५ ) धर्मः एव आत्मा ( स्वभावः ) यस्य सः धर्मात्मा । ( २६ ) नष्टः आत्मा (विवेकबुद्धिः) येषां ते नष्टात्मानः | ( २७ ) नियतः आत्मा (स्वभावः, इन्द्रियसंघातः वा) यैः ते नियतात्मानः, तैः नियतात्मभिः । (२८) परमः (सर्वश्रेष्ठः) आत्मा परमात्मा । ( २९ ) प्रयतः (प्रकर्षेण यतः नियन्त्रितः) आत्मा (चित्तं स्वभावः वा) येन सः प्रयतात्मा, तस्य प्रयतात्मनः । ( ३० ) मशान्तः आत्मां (चित्तं स्वभावः वा ) यस्य सः प्रशान्तात्मा । (३१) प्रसन्नः आत्मा (अन्तः- करणं ) यस्य सः प्रसन्नात्मा । ( ३२ ) ब्रह्मयोगयुक्तः [ ब्रह्मयोगेन (ब्रह्मणः योगः 235