पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[अ० ३क्ष्लो०१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


"मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी " इति ॥

 इदं चोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणाम् । अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्ठेयानीति प्रजापतिवचनार्थः ॥ १३ ॥

 श्री० टी०-अतश्च यजन्त एव श्रेष्ठा नेतर इत्याह-यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर्मुच्यन्ते । पञ्च सूनाश्च स्मृतावुक्ताः--

"कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनीं ।
पञ्च सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति " इति ॥

 ये त्वात्मनो भोजनार्थमेव[१] पचन्ति न तु वैश्वदेवद्य[२]र्थं ते पापा दुराचारी अघमेव मुञ्जते ॥ १३ ॥

 म० टी०-न केवलं प्रजापतिवचनादेव कर्म कर्तव्यमपि तु जगच्चक्रप्रवृत्तिहेतु- त्वादपीत्याह–अन्नादिति त्रिभिः--

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ॥
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥

 अन्नाद्भुक्ताद्रेतोलोहितरूपेण परिणताद्भूतानि प्राणिशरीराणि भवन्ति जायन्ते । अन्नस्य संभवो जन्मान्नसंभवः पर्जन्याद्वृष्टेः । प्रत्यक्षसिद्धमेवैतत् । अत्र कर्मोपयोगमाह---यज्ञात्कारीर्योदेरग्निहोत्रादेश्चापूर्वाख्याद्धर्माद्भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर्वेष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रख्याम् । मनुना चोक्तम्---

"अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपातिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः " इति ॥

 स च यज्ञो धर्माख्यः सूक्ष्मः कर्मसमुद्भव ऋत्विग्यजमानव्यापार साध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥ १४ ॥

 श्री० टी०---जगच्चक्रप्रवृत्तिहेतुत्वादपि कर्म कर्तव्यमित्याह-अन्नादितित्रिभिः-- अन्नाच्छुक्रशोणितरूपेण परिणताद्भूतान्युत्पद्यन्ते । अन्नस्य च संभवः पर्जन्याद्वृष्टेः । स चेपर्जन्यो यज्ञाद्भवति । स च यज्ञः कर्मसमुद्भवः कर्मणा यजमानादिव्यापारेण सम्यनिष्पद्यत इत्यर्थः ।

"अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः" इति स्मृतेः ॥ १४ ॥


  1. के. अ. “मैवान्नं प” ।
  2. झ. "वार्थ ।