पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ३ क्ष्लो०३५]
११९
श्रीमद्भगवद्गीता।


रागद्वेषप्रतिबन्धके परमेश्वरमजनादौ प्रवर्तयति गम्भीरस्रोतःपातात्पूर्वमेव नावमाश्रित इव नानर्थं प्राप्नोतीति ॥ ३४ ॥

 म. टी-ननु स्वाभाविकरागद्वेषप्रयुक्तपश्वादिसाधारणप्रवृत्तिप्रहाणेन शास्त्रीयमेव कर्म कर्तव्यं चेत्तर्हि यत्सुकरं भिक्षाशनादि तदेव क्रियतां किमतिदुःखावहेन युद्धेनेत्यत आह-

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ॥
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

 श्रेयात्प्रशस्यतरः स्वधर्मो यं वर्णमाश्रमं वा प्रति यो विहितः स तस्य स्वधर्मों विगुणोऽपि सर्वाङ्गोपसंहारमन्तरेण कृतोऽपि परधर्मात्स्वं प्रत्यविहितात्स्वनुष्ठितात्सर्वाङ्गोपसंहारेण संपादितादपि । न हि वेदातिरिक्तमानगम्यो धर्मः । येन परधर्मोऽप्यनुष्ठेयो धर्मत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात् , “ चोदनालक्षणोऽर्थो धर्मः" इति न्यायात् । अतः स्वधर्मे किंचिदङ्गहीनेऽपि स्थितस्य निधनं मरणमपि श्रेयः प्रशस्यतरं परधर्मस्थस्य जीवितादपि । स्वधर्मस्थस्य निधनं हीह लोके कीर्त्यावहं परलोके च स्वर्गादिप्रापकम् । परधर्मस्तु इहाकीर्तिकरत्वेन परत्र नरकप्रदत्वेन च भयावहो यतोऽतो रागद्वेषादिप्रयुक्तस्वाभाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यर्थः । एवं तावद्भगवन्मताङ्गीकारिणां श्रेयःप्राप्तिस्तदनङ्गीकारिणां च श्रेयोमार्गभ्रष्टत्वमुक्तम् । श्रेयोमार्गभ्रंशेन फलाभिसंधिपूर्वककाम्यकर्माचरणे च केवलपापमात्राचरणे च बहूनि कारणानि कथितानि ये त्वेतदम्यसूयन्त इत्यादिना । तत्रायं संग्रहक्ष्लोकः

श्रद्धाहानिस्तथाऽसूया दुष्टचित्तत्वमूढते ।
प्रकृतेर्वशवर्तित्वं रागद्वेषौ च पुष्कलौ ।
परधर्मरुचित्वं चेत्युक्ता दुर्मार्गवाहकाः ॥ ३५ ॥

 श्री०टी०-तदेवं स्वाभाविकी पश्वादिसहशी प्रकृतिं त्यक्त्वा वधर्मे प्रवर्तितव्यमित्युक्तं, तर्हि स्वधर्मस्य युद्धादेर्दुखरूपस्य यथावत्कर्तुमशक्यत्वात्परधर्मस्य चाहिंसादेः सुकरत्वाद्धर्मत्वाविशेषाच तत्र प्रवर्तितुमिच्छन्तं प्रत्याह-श्रेयानिति । किंचिदङ्गहीनोऽपि स्वधर्मः श्रेयान्प्रशस्यतरः स्वनुष्ठितात्सर्वाङ्गसंपूर्त्या कृतादपि परधर्मात्सकाशात् । तत्र हेतुः स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं स्वर्गादिप्रापकत्वात् । परधर्मस्तु स्व[१]स्य भयावहो निषिद्धत्वेन नरकप्रापकत्वात् ॥ ३५ ॥

 म०टी०-तत्र काम्यप्रतिषिद्धकर्मप्रवृत्तिकारणमपनुद्य भगवन्मतमनुवर्तितुं तत्का- रणावधारणाय-


  1. ख.ग. घ.ड.च.छ.ज.झ.ञ. परस्य।