पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० क्ष्लो०१९-२०]
१४१
श्रीमद्भगवद्गीता।


यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ॥
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

 यस्य पूर्वोक्तपरमार्थदर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि कामसंकल्पवर्जिताः कामः फलतृष्णा संकल्पोऽहं करोमीति कर्तृत्वाभिमानस्ताभ्यां वर्जिताः । लोकसंग्रहार्थं वा जीवनमात्रार्थ वा प्रारब्धकर्मवेगाद्वृथाचेष्टारूपा भवन्ति । तं कर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशात् " इति न्यायात् , ज्ञानाग्निदग्धकर्माणं तं बुधा ब्रह्मविदः परमार्थतः पण्डितमाहुः । सम्यग्दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्यर्थः ॥ १९ ॥

 श्री०टी०---कर्मण्यकर्म यः पश्येदितिश्रुत्यर्था[१]भ्यां यदुक्तमर्थद्वयं तदेव स्पष्टयति यस्येत्यादिपञ्चभिः--सम्यगारभ्यन्त इति समारम्भाः कर्माणि काम्यत इति कामः फलं तत्संकल्पेन वर्जिता यस्य भवन्ति तं पण्डितमाहुः । तत्र हेतुः-यतस्तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धानि अकर्मतां नीतानि कर्माणि यस्य तम् । आरूढावस्थायां तु कामः फलविषयस्तदर्थमिदं कर्तव्यमिति कर्मविषयः संकल्पश्च ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥ १९ ॥

 म. टी.-भवतु ज्ञानाग्निना प्राक्तनानामप्रारब्धकर्मणां दाह आगामिनां चानु- त्पत्तिः । ज्ञानोत्पत्तिकाले क्रियमाणं तु पूर्वोत्तरयोरनन्तर्भावात्फलाय भवेदिति भवेत्क- स्यचिदाशङ्का तामपनुदति-

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ॥
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः॥२०॥

 कर्मणि फले चाऽऽसङ्गं कर्तृत्वाभिमानं भोगाभिलाषं च त्यक्त्वाऽकर्त्रभोक्त्रात्मसम्यग्दर्शनेन बाधित्वा नित्यतृप्तः परमानन्दस्वरूपलाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिरद्वैतदर्शनेन निर्गतो यस्मात्स निराश्रयो देहेन्द्रियाद्यभिमानशून्यः। फलकामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतुगर्भ क्रमेण विशेषणद्वयम् । एवंभूतो जीवन्मुक्तो व्युत्त्थानदशायां कर्मणि वैदिके लौकिके वाऽभिप्रवृत्तोऽपि प्रारब्धकर्मवशाल्लोकदृष्टयाऽभितः साङ्गोपाङ्गानुष्ठानाय प्रवृत्तोऽपि स्वदृष्ट्या नैव किंचित्करोति स निष्क्रियात्मदर्शनेन बाधितत्वादित्यर्थः ॥ २० ॥

 श्री०टी०-किं च-त्यक्त्वेति । कर्मणि तत्फले चाऽऽसक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अत एव योगक्षेमार्थमाश्रयणीयरहितः । एवंभूतो यः स स्वाभाविके


  1. क. 'र्थार्थापत्तिभ्यां ।