पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ४ क्ष्लो० २२ ]
१४३
श्रीमद्भगवद्गीता।


यदृच्छालामसंतुष्टो द्वंद्वातीतो विमत्सरः ॥
समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥२२॥

 शास्त्राननुमतप्रयत्नव्यतिरेको यदृच्छा तयैव यो लाभोऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालामस्तेन संतुष्टस्तदधिकतृष्णारहितः । तथा च शास्त्रं " भैक्षं चरेत् " इति प्रकृत्य " अयाचितमसंकृप्तमुपपन्नं यदृच्छया ” इति याच्यासंकल्पादिप्रयत्नं वारयति । मनुरपि-

"न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गाविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्" इति ॥

 यतयो भिक्षार्थं ग्रामं विशन्तीत्यादिशास्त्रानुमतस्तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यमपि शास्त्रनियतमेव-

"कौपीनयुगलं वासः कन्थां शीतनिवारिणीम् ।
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य संग्रहम् " इत्यादि ॥

 एवमन्यदपि विधिनिषेधरूपं शास्त्रमूह्यम् । ननु स्वप्रयत्नमन्तरेणालाभे शीतोष्णादिपीडितः कथं जीवेदत आह-द्वंद्वातीतः, द्वंद्वानि क्षुत्पिपासाशीतोष्णवर्षादीनि अतीतोऽतिक्रान्तः समाधिदशायां तेषामस्फुरणात् । व्युत्त्थानदशायां स्फुरणेऽपि परमानन्दाद्वितीयाकर्त्रभोक्त्रात्मप्रत्ययेन बाधात्तैर्द्वद्वैरुपहन्यमानोऽप्यक्षुभितचित्तः । अत एव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहनपूर्विका स्वोत्कर्षवाञ्छा मत्सरस्तद्रहितोऽद्वितीयात्मदर्शनेन निर्वैरबुद्धिः । अत एव समस्तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च सिद्धौ न हृष्टो नाप्यसिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैरारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म कृत्वाऽपि न निबध्यते बन्धहेतोः सहेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वादिति पूर्वोक्तानुवादः ॥ २२ ॥

 श्री०टी०-किं च-यदृच्छति । अप्रार्थितोपस्थितो लाभो यदृच्छालामस्तेन संतुष्टः । द्वंद्वानि शीतोष्णादीन्यतीतोऽतिक्रान्तस्तत्सहनशील इत्यर्थः । विमत्सरो निर्वैरः । यदृच्छालाभस्यापि सिद्धावसिद्धौ च समो हर्षविषादरहितः । य एवंभूतः स पूर्वोत्तरभूमिकयोर्यथायथं विहितं स्वाभाविकं वा कर्म कृत्वाऽपि न बन्धं प्राप्नोति ॥ २२ ॥

 म०टी०-त्यक्तसर्वपरिग्रहस्य यदृच्छालामसंतुष्टस्य यतेर्यच्छरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म तत्कृत्वा न निबध्यत इत्युक्ते गृहस्थस्य ब्रह्मविदो जनकादेर्यज्ञादिरूपं यत्कर्म तद्वन्धहेतुः स्यादिति भवेत्कस्यचिदाशङ्का तामपनेतुं त्यक्त्वा कर्मफलासङ्गमित्यादिनोक्तं विवृणोति-