पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
[अ० क्ष्लो०२८ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 द्रव्यत्याग एव यथाशास्त्रं यज्ञो येषां ते द्रव्ययज्ञाः पूर्तदत्ताख्यस्मार्तकर्मपराः । तथाच स्मृतिः-

"वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसंत्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते " इति ॥

 इष्टाख्यं श्रौतं कर्म तु दैवमेवापरे यज्ञमित्यत्रोक्तम् । अन्तर्वेदि दानमपि तत्रैवान्तर्भूतम् । तथा कृच्छ्चान्द्रायणादि तप एव यज्ञो येषां ते तपोयज्ञास्तपस्विनः । तथा योगश्चित्तवृत्तिनिरोधोऽष्टाङ्गो यज्ञो येषां ते योगयज्ञा यमनियमासनादियोगाङ्गानुष्ठानपराः। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो हि योगस्याष्टावङ्गानि। तत्र प्रत्याहारः श्रोत्रादीनीन्द्रियाण्यन्य इत्यत्रोक्तः। धारणाध्यानसमाधय आत्मसंयमयोगानावित्यत्रोक्ताः । प्राणायामोऽपाने जुह्वति प्राणमित्यनन्तरश्लोके वक्ष्यते । यमनियमासनान्यत्रोच्यन्ते । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः पञ्च । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः पञ्च । स्थिरसुखमासनं पद्मकस्वस्तिकाद्यनेकविधम् । अशास्त्रीयः प्राणिवधो हिंसा । सा च कृतकारितानुमोदितभेदेन त्रिविधा । एवमयथार्थभाषणमवध्यहिंसानुबन्धि यथार्थभाषणं चानृतम् । स्तेयमशास्त्रीयमार्गेण परद्रव्यस्वीकरणम् । अशास्त्रीयः स्त्रीपुंसव्यतिकरो मैथुनम् । शास्त्र[१]निषिद्धमार्गेण देहयात्रानिर्वाहकाधिकभोगसाधनस्वीकारः परिग्रहः । एतन्निवृत्तिलक्षणा उपरमा यमाः। यम उपरमे " इति स्मरणात् । तथा शौचं द्विविधं बाह्यमाभ्यतरं च । मृज्जलादिभिः कायादिक्षालनं हितमितमेध्याशनादि च बाह्यं, मैत्रीमुदितादिभिर्मदमानादिचित्तमलक्षालनमान्तरं, संतोषो विद्यमानभोगोपकरणादधिकस्यानुपादित्सारूपा चित्तवृत्तिः। तपः क्षुत्पिपासाशीतोष्णादिद्वंद्वसहनं काष्ठमौनाकारमौनादिव्रतानि च । इङ्गितेनापि स्वाभिप्रायाप्रकाशनं काष्ठमौनमवचनमात्रमाकारमौनमिति भेदः । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं सर्वकर्मणां तस्मिन्परमगुरौ फलनिरपेक्षतयाऽर्पणम् । एते विधिरूपा नियमाः। पुराणेषु येऽधिका उक्तास्त एष्वेव यमनियमेष्वन्तर्भाव्याः। एतादृशयमनियमाद्यभ्यासपरा योगयज्ञाः । स्वाध्यायज्ञानयज्ञाश्च यथाविधि वेदाभ्यासपराः स्वाध्याययज्ञाः । न्यायेन वेदार्थनिश्चयपरा ज्ञानयज्ञाः । यज्ञान्तरमाह-यतयो यत्नशीलाः संशितव्रताः सम्यक्शितानि तीक्ष्णीकृतान्यतिहढानि व्रतानि येषां ते संशितव्रता व्रतयज्ञा इत्यर्थः । तथा च भगवान्पतञ्जलि:-" ते जातिदेशकालसमयानवच्छिन्नाः सार्व-


  1. क. ग. घ. ञ, शास्त्रनि ।