पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०४०-४१]
१५९
श्रीमद्भगवदीता।


ज्ञानलाभात्प्राकर्मयोग एव शुद्ध्यर्थमनुष्ठेयः, ज्ञानलाभानन्तरं तु न तस्य किंचित्कृत्यमस्तीत्याह-ज्ञानं लब्ध्वा त्वचिरेण पर शान्ति मोक्ष प्राप्नोति ॥ ३९ ॥

 म०टी०-अत्र च संशयो न कर्तव्यः कस्मात्-

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥

 अज्ञोऽनधीतशास्त्रत्वेनाऽऽत्मज्ञानशून्यः । गुरुवेदान्तवाक्यार्थ इदमेवं न भवत्येवेतिविपर्ययरूपा नास्तिक्यबुद्धिरश्रद्धा तद्वानश्रद्दधानः । इदमेवं भवति न वेति सर्वत्र संशयाक्रान्तचित्तः संशयात्मा विनश्यति स्वार्थाद्भष्टो भवति । अज्ञश्चाश्रद्दधानश्च विनश्यतीति संशयात्मापेक्षया न्यूनत्वकथनार्थ चकाराभ्यां तयोः प्रयोगः । कुतः, संशयात्मा हि सर्वतः पापीयान्यतो नायं मनुष्यलोकोऽस्ति वित्तार्जनाद्यभावात्, न परो लोकः स्वर्गमोक्षादिधर्मज्ञानाद्यभावात् , न सुखं भोजनादिकृतं संशयात्मनः सर्वत्र संदेहाक्रान्तचित्तस्य । अज्ञस्याश्रद्दधानस्य च परो लोको नास्ति मनुष्यलोको भोजनादिसुखं च वर्तते । संशयात्मा तु त्रितयहीनत्वेन सर्वतः पापीयानित्यर्थः ॥ ४० ॥

 श्री. टी-ज्ञानाधिकारिणमुक्त्वा तद्विपरीतमनधिकारिणमाह-अज्ञश्चेति । अज्ञो गुरूपदिष्टानभिज्ञः कथंचिज्ज्ञाने जातेऽप्यश्रद्दधानश्च जातायामपि श्रद्धायां ममेदं सिध्येद्वा न वेति संशयाक्रान्तचित्तश्च नश्यति स्वार्थाद्रश्यति । एतेषु त्रिष्वपि संशयात्मा सर्वथा नश्यति । यतस्तस्यायं लोको नास्ति धनार्जनविवाहाद्यसिद्धेः । न च परलोकः, धर्मस्यानिष्पत्तेः । न च सुखं संशयेनैव भोगस्याप्यसंभवात् ॥ ४० ॥

 म० टी०- एतादृशस्य सर्वानर्थमूलस्य संशयस्य निराकरणायाऽऽत्मनिश्चयमुपायं वदन्नध्यायद्वयोक्तां पूर्वापरभूमिकाभेदेन कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरति-

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ॥
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ ४१ ॥

 योगेन भगवदाराधनलक्षणसमत्वबुद्धिरूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद्वा परमार्थदर्शनलक्षणेन योगेन सन्यस्तानि त्यक्तानि कर्माणि येन तं योगसंन्यस्तकर्माणम् । संशये सति कथं योगसंन्यस्तकर्मत्वमत आह-ज्ञानसंछिन्नसंशयं ज्ञानेनाऽऽत्मनिश्चयलक्षणेन च्छिन्नः संशयो येन तम् । विषयपरवशत्वरूपप्रमादे सति कुतो ज्ञानोत्पत्तिरित्यत आह-आत्मवन्तमप्रमादिनं सर्वदा सावधानम् । एतादृशमप्रमादित्वेन ज्ञानवन्तं ज्ञानमसंछिन्नसंशयत्वेन योगसंन्यस्तकर्माणं कर्माणि लोकसंग्रहार्थानि वृथाचेष्टारूपाणि वा न निबध्नन्ति अनिष्टमिष्टं मिश्रं वा शरीरं नाऽऽरभन्ते हे धनंजय ॥ ४१ ॥