पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[अ०५क्ष्लो०६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-



करणशुद्धये प्रथम कर्मयोगोऽनुष्ठेयो न तु संन्यासः । स तु वैराग्यतीव्रतायां स्वयमेव भविष्यतीति ॥ ५ ॥

 श्री०टी०-एतदेव स्फुटयति-यत्सांख्यैरिति । सांख्यैर्ज्ञाननिष्ठैः संन्यासिभिर्यत्स्थानं मोक्षाख्यं प्रकर्षेण साक्षादाप्यते, योगैरित्यत्रार्शआदि[१]त्वान्मत्वर्थीयोऽच्प्रत्ययो द्रष्टव्यः । कर्मयोगिभिरपि तदेव ज्ञानद्वारेण गम्यतेऽवाप्यत इत्यर्थः । अतः सांख्यं च योगं चैकफलत्वेनैकं यः पश्यति स एव सम्यक्पश्यति ॥ ५ ॥

 म० टी०-अशुद्धान्तःकरणेनापि संन्यास एव प्रथमं कुतो न क्रियते ज्ञाननिष्ठाहेतुत्वेन तस्याऽऽवश्यकत्वादिति चेत्तत्राऽऽह-

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः॥
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥६॥

 अयोगतो योगमन्तःकरणशोधकं शास्त्रीय कर्मान्तरेण हठादेव यः कृतः संन्यासः स तु दुःखमाप्तुमेव भवति अशुद्धान्तःकरणत्वेन तत्फलस्य ज्ञाननिष्ठाया असंभवात् । शोधके च कर्मण्यनधिकारात्कर्मब्रह्मोभयभ्रष्टत्वेन परमसंकटापत्तेः । कर्मयोगयुक्तस्तु शुद्धान्तःकरणत्वान्मुनिर्मननशीलः संन्यासी भूत्वा ब्रह्म सत्यज्ञानादिलक्षणमात्मानं नचिरेण शीघ्रमेवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतचोक्तं प्रागेव-

“न कर्मणामनारम्भान्नैष्कर्म्य पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति" इति ॥

 अत एकफलत्वेऽपि कर्मसंन्यासात्कर्मयोगो विशिष्यत इति यत्प्रागुक्तं तदुप- पन्नम् ॥ ६ ॥

 श्री०टी०-यदि कर्मयोगिनोऽप्यन्ततः संन्यासेनैव ज्ञाननिष्ठा तर्हि आदित एव संन्यासः कर्तुं युक्त इति मन्वानं प्रत्याह-संन्यास इति । अयोगतः कर्मयोग विना संन्यासः प्राप्तुं दुःखं दुःखहेतुरशक्य इत्यर्थः । चित्तशुद्ध्यमावेन ज्ञाननिष्ठाया असंभवात् । योगयुक्तस्तु शुद्धचित्ततया मुनिः संन्यासी भूत्वो[२]ऽचिरेणैव ब्रह्माधिगच्छति अपरोक्षं जानाति । अतश्चित्तशुद्धेः प्राकर्मयोग एव संन्यासाद्विशिष्यत इति पूर्वोक्त सिद्धम् । तदुक्तं वार्तिककृद्धिः-

" प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
संन्यासिनोऽपि दृश्यन्ते दैवसंदूषिताशयाः" इति ॥६॥

 म०टी०-ननु कर्मणो बन्धहेतुत्वाद्योगयुक्तो मुनिर्ब्रह्माधिगच्छतीत्यनुपपन्नमि- त्यत आह-


  1. ख. ग. घ. छ. च.छ. झ ञ. 'दित्वेन मत्व।
  2. ख. "त्वा नचि।