पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०२४]
१८३
श्रीमद्भगवद्गीता।


 श्री० टी०-त(य)स्मान्मोक्ष एव परः पुरुषार्थस्तस्य च कामक्रोधवेगोऽतिप्रतिपक्षोऽतस्तत्सहनसमर्थ एव मोक्षभागित्याह-शक्रोतीति । कामाक्रोधाच्चोद्भवति यो वेगो मनोने[१]त्रक्षोभादिलक्षणस्तमिहैव तदुद्भवसमय एव यो नरः सोढुं प्रतिरोढुं शक्नोति । तदपि न क्षणमात्रं किं तु शरीरविमोक्षणात्प्राग्यावदेहपातमित्यर्थः । य एवंभूतः स एवं युक्तः समाहितः सुखी च भवति नान्यः । यद्वा मरणादूर्ध्वं विलपन्तीभिर्युवतीभिरालिङ्गयमानोऽपि पुत्रादिभिर्दह्यमानोऽपि यथा प्राणशून्यः कामक्रोधवेगं सहते तथा मरणात्प्रागपि जीवन्नेव यः सहते स एव युक्तः सुखी चेत्यर्थः । तदुक्तं वसिष्ठेन-

"प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रयो भवेत्।" इति ॥ २३ ॥

 म०टी०--कामक्रोधवेगसहनमात्रेणैव मुच्यत इति न, किं तु-

योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः॥
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥

 अन्तर्बाह्यविषयनिरपेक्षमेव स्वरूपभूतं सुखं यस्य सोऽन्तःसुखो बाह्यविषयजनितसुखशून्य इत्यर्थः । कुतो बाह्यसुखाभावस्तत्राऽऽह-अन्तरात्मन्येव न तु ख्यादिविषये बाह्यसुखसाधन आराम आरमणं क्रीडा यस्य सोऽन्तरारामस्त्यक्तसर्वपरिग्रहत्वेन बाह्यसुखसाधनशून्य इत्यर्थः । ननु त्यक्तसर्वपरिग्रहस्यापि यतेर्यदृच्छोपनतैः कोकिलादिमधुरशब्दश्रवणमन्दपवनस्पर्शनचन्द्रोदयमयूरनृत्यादिदर्शनातिमधुरशीतलगङ्गोदकपानकेतकीकुसुमसौरभाद्यवघ्राणादिभिर्ग्राम्यैः सुखोत्पत्तिसंभवात्कथं बाह्यसुखतत्साधनशून्यत्वमिति तत्राऽऽह-तथाऽन्तर्ज्योतिरेव यः । यथाऽन्तरेव सुखं न बाह्यैर्विषयैस्तथाऽन्तरेवाऽऽत्मनि ज्योतिर्विज्ञानं न बाह्यैरिन्द्रियैर्यस्य सोऽन्तर्ज्योतिः श्रोत्रादिजन्यशब्दादिविषयविज्ञानरहितः । एवकारो विशेषणत्रयेऽपि संबध्यते । समाधिकाले शब्दादिप्रतिभासाभावाद्व्युत्त्थानकाले तत्प्रतिभासेऽपि मिथ्यात्वनिश्चयान्न बाह्यविषयैस्तस्य सुखोत्पत्तिसंभव इत्यर्थः । य एवं यथोक्तविशेषणसंपन्नः स योगी समाहितो ब्रह्मनिर्वाणं ब्रह्म परमानन्दरूपं कल्पितद्वैतोपशमरूपत्वेन निर्वाणं तदेव, कल्पितभावस्याधिष्ठानात्मकत्वात् , अविद्यावरणनिवृत्त्याऽधिगच्छति नित्यप्राप्तमेव प्राप्नोति । यतः सर्वदैव ब्रह्मभूतो नान्यः, "ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुतेः, "अवस्थितेरिति काशकृत्स्नः" इति न्यायाच ॥ २४ ॥

 श्री०टी०-न केवलं कामक्रोधवेगसंहरणमात्रेण मोक्ष प्राप्नोति अपि तु ---- योऽन्तरिति । अन्तरात्मन्येव सुखं यस्य न विषयेषु, अन्तरेवाऽऽरामः क्रीडा यस्य


  1. क. नेत्रादिक्षोमल।