पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
[अ०५क्ष्लो०२५-२६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


न बहिः, अन्तरेव ज्योतिर्दृष्टिर्यस्य न गीतनृत्यादिषु स एवं ब्रह्मणि भूतः स्थितः सन्ब्रह्मणि निर्वाणं लयमधिगच्छति प्राप्नोति ॥ २४ ॥

 म०टी०-मुक्तिहेतोर्ज्ञानस्य साधनान्तराणि विवृण्वन्नाह-

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ॥
छिन्नवैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥

 प्रथमं यज्ञादिभिः क्षीणकल्मषाः, ततोऽन्तःकरणशुद्धया-ऋषयः सूक्ष्मवस्तुविवेचनसमर्थाः संन्यासिनः, ततः श्रवणादिपरिपाकेण च्छिन्नद्वैधा निवृत्तसर्वसंशयाः, ततो निदिध्यासनपरिपाकेण संयतात्मानः परमात्मन्येवैकाग्रचित्ताः । एतादृशाश्च द्वैतादर्शित्वेन सर्वभूतहिते रता हिंसाशून्या ब्रह्मविदो ब्रह्मनिर्वाणं लभन्ते,

" यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इति श्रुतेः ॥

 बहुवचनं " तद्यो यो देवानाम् " इत्यादिश्रुत्युक्तानियमप्रदर्शनार्थम् ॥ २५ ॥

 श्री० टी०-लभन्त इति । ऋषयः सम्यग्दर्शिनः क्षीणं कल्मषं येषां छिन्नं द्वैधं संशयो येषां यतः संयत आत्मा चित्तं येषां सर्वेषां भूतानां हिते रताः कृपालवस्ते ब्रह्मनिर्वाण मोक्ष लभन्ते ॥ २५ ॥

 म०टी०-पूर्व कामक्रोधयोरुत्पन्नयोरपि वेगः सोढव्य इत्युक्तमधुना तु तयोरुत्पत्तिप्रतिबन्ध एवं कर्तव्य इत्याह-

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ॥
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

 कामक्रोधयोवियोगस्तदनुत्पत्तिरेव तद्युक्तानां कामक्रोधवियुक्तानाम् । अत एव यतचेतसां संयतचित्तानां यतीनां यत्नशीलानां संन्यासिनां विदितात्मनां साक्षात्कृतपरमात्मनामभित उभयतो जीवतां मृतानां च तेषां ब्रह्मनिर्वाणं मोक्षो वर्तते नित्यत्वात् , न तु भविष्यति साध्यत्वाभावात् ॥ २६ ॥

 श्री०टी०-किं च-कामक्रोधवियुक्तानामिति । कामक्रोधाभ्यां वियुक्तानां यतीनां संन्यासिनां संयतचित्तानां ज्ञातात्मतत्त्वानाममित उभयतो मृतानां जीव[१]तां च न देहान्त[२] एव तेषां ब्रह्मणि लयः, अपि तु जीवतामपि वर्तत इत्यर्थः ॥ २६ ॥

 म०टी०-पूर्वमीश्वरार्पितसर्वभावस्य कर्मयोगेना(णा)न्तःकरणशुद्धिस्ततः सर्वकर्मसन्यासस्ततः श्रवणादिपरस्य तत्त्वज्ञानं मोक्षसाधनमुदेतीत्युक्तम् । अधुना स योगी


  1. ग, ङ. ज. झ. जीवानां ।
  2. क. ख. ग. छ. अ. 'न्तर ए।