पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
[अ०६ क्ष्लो०१३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 तत्र तस्मिन्नासन उपविश्यैव न तु शयानस्तिष्ठन्वा । " आसीनः संभवात् " इति न्यायात् । यताः संयता उपरताश्चित्तस्येन्द्रियाणां च क्रिया वृत्तयो येन स यतचित्तेन्द्रियक्रियः सन्योगं समाधिं युञ्जीताभ्यसेत् । किमर्थम् , आत्मविशुद्धय आत्मनोऽन्तःकरणस्य सर्वविक्षेपशन्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै । " दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ” इति श्रुतेः । किं कृत्वा योगमभ्यसेदिति तत्राऽऽह-एकाग्रं राजसतामसव्युत्थानाख्यप्रागुक्तभूमित्रयपरित्यागेनैकविषयकधारावाहिकानेकवृत्तियुक्तमुद्रिक्तसत्त्वं मनः कृत्वा दृढभूमिकेन प्रयत्नेन संपाद्यैकाग्रताविवृध्ध्यर्थ योगं संप्रज्ञातसमाधिमभ्यसेत् । स च ब्रह्माकारमनोवृत्तिप्रवाह एव निदिध्यासनाख्यः। तदुक्तम्-

" ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतिं विना ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः" इति ॥

 एतदेवाभिप्रेत्य ध्यानाभ्यासप्रकर्ष विदधे भगवान्-योगी राय द्योगमात्मविशुद्धये, युक्त आसीत मत्पर इत्यादि बहुकम

 श्री०टी०-तत्रेति । तत्र तस्मिन्नासन्द, 'मनः कृत्वा योगं युञ्ज्यादभ्यसेत् , यता उपग्न माया यस्य स आत्मनो मनसो विशुद्धय उपशान्त

 म०टी०-तदर्थं बाह तत्र कथं शरीरधारणमित्युच्यते--

समं कायशिरमान धारयन्नचलं स्थिरः ॥
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

 कायः शरीरमध्यं स च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धान्तपर्यन्तं सममवक्रमचलमकम्पं धारयन्नेकतत्त्वाभ्यासेन विक्षेपसहभाव्यङ्गमेजयन्ता संपादयन्स्थिरो दृढप्रयत्नो भूत्वा । किं च लं हित्याय विषयप्रव न्तरा दिशां चाव ... सन्नासातत्युत्तरेण संबन्धः ॥ १३ ॥

 श्री०टी०-चित्तैकाग्योपयोगिनीं देहादिधारणां दर्शयन्नाह द्वाभ्याम्-सममिति । काय इति देहमध्यभागो विवक्षितः । कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धान्तपर्यन्तं सममवक्रमचलं निश्चलं धारयन्स्थिरो दृढप्रयत्नो भूत्वेत्यर्थः । [१]स्वीयं नासिकाग्रं संप्रेक्ष्येति अर्धनिमीलितनेत्र इत्यर्थः । इतस्ततो दिशश्चानवलोकयन्नासीतेत्युत्तरेणान्वयः ॥ १३ ॥


  1. क. अ. स्वकीयं ।