पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६ क्ष्लो. १५]
१९७
श्रीमद्भगवद्गीता।


समाधौ ये कृतपरितोषास्ते परं पुरुषमपश्यन्तश्चेतसः प्रकृतौ लीनत्वात्प्रकृतिलया इत्युच्यन्ते । सेयं ग्रहीतृसमापत्तिरस्मितामात्ररूपग्रहीतृनिष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते, तेषामपि केवलपुरुषविषया विवेकख्यातिग्रहीतृसमापत्तिरपि न सास्मितः समाधिर्विवेकेनास्मितायास्त्यागात् । तत्र ग्रहीतृभानपूर्वकमेव ग्रहणमानं तत्पूर्वकं च सूक्ष्मग्राह्यभानं तत्पूर्वकं च स्थूलग्राह्यभानमिति स्थूलविषयो द्विविधोऽपि वितर्कश्चतुष्टयानुगतः । द्वितीयो वितर्कविकलस्त्रितयानुगतः । तृतीयो वितर्कविचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्कविचारानन्दैर्विकलोऽस्मितामात्र इति चतुरवस्थोऽयं संप्रज्ञात इति । एवं सवितर्कः सविचारः सानन्दः सास्मितश्च समाधिरन्तर्धानादिसिदेतुतया मुक्तिहेतुसमाधिविरोधित्वाद्धेय एव मुमुक्षुमिः । ग्रहीतृग्रहणयोरपि चित्तदशायां ग्राह्यकोटौ निक्षेपा योपादेयविभागकथनाय ग्राह्यसमापत्तिरेव चतुर्विधा हि ग्राह्यसमापत्तिः स्थूलग्राह्यगोचरा द्विविधा सवितर्को लागोचराऽपि द्विविधा सविचारा निर्विचारा च । "तत्र शब्दा. र्थज्ञाना " शब्दार्थज्ञानविकल्पसंमिन्ना स्थूलार्थावभासरूपा सवितर्का समापत्ति. कुवृत्तिरित्यर्थः । "स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितक आलम्बने शब्दार्थस्मृतिप्रविलये प्रत्युदितस्पष्टग्राह्याकारप्रतिभासितया रुपशून्येव निर्वितर्का समापत्तिः स्थूलगोचरा निर्विकल्पकवृत्तिरित्यर्थः रा निर्विचारा च सूक्ष्मविषया व्याख्याता सूक्ष्मस्तन्मात्रादिर्विषयो या सूक्ष्मविषया समापत्तिर्द्विविधा सविचारा निर्विचारा च सविकल्पकनिर्विकल्पकभेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूलविषयया समापत्त्या व्याख्याता । शब्दार्थज्ञानविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । शब्दार्थज्ञानविमानतया सक्षमोऽर्थः प्रतिभाति निर्विचारायाश्च समापत्तेर्यत्सूक्ष्मवि न्दसास्मितयोर्ग्रहीतृग्रहणसमापत्त्योरपि ग्राह्यसमापत्तावेवान्तर्भाव इत्यर्थः । तथा हिपार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः, आप्यस्यापि रसतन्मात्रं, तैजसस्य रूपतन्मात्रं, वायवीयस्य स्पर्शतन्मात्रं, नभसः शब्दतन्मात्रं, तेषामहंकारस्तस्य लिङ्गमात्रं महत्तत्तं तस्याप्यलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानामपि प्रकृतीनां प्रधान एवं सूक्ष्मताविश्रान्तेस्तत्पर्यन्तमेव सूक्ष्मविषयत्वमुक्तम् । यद्यपि प्रधानादपि पुरुषः सूक्ष्मोऽस्ति तथाऽप्यन्वयिकारणत्वाभावात्तस्य सर्वान्वयिकारणे प्रधान एव निरतिशयं सौक्ष्म्यं व्याख्यातं, पुरुषस्तु निमित्तकारणं सदपि नान्वयिकारणत्वेन सूक्ष्मतामर्हति ।