ज्ञानद्वारा कैवल्यहेतुत्वं, मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दर्शितम् ।
यस्मादेवं महाफलो योगस्तस्मात्तं महता प्रयत्नेन संपादयेदित्यभिप्रायः ॥ १५ ॥
श्री०टी०-योगाभ्यासफलमाह-युञ्जन्नेवमिति । एवमुक्तप्रकारेण सदाऽऽत्मानं मनो युञ्जन्समाहितं कुर्वन्नियतं निरुद्धं मानतं चित्तं यस्य स शान्ति संसारोपरमं प्राप्नोति । कथंभूताम्, निर्वाणं परमं प्राप्यं यस्यां तां मत्संस्थां मद्रूपेणावस्थितिम् ॥ १५॥
म. टी.-एवं योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ॥ |
यद्भुक्तं सज्जीर्यति शरीरस्य च कार्यक्षमता संपादयति तदा क्रम्य लोभेनाधिकमश्नतो न योगोऽस्ति अजीर्णदोषेण न्तमनश्नतो योगोऽस्ति अनाहारादत्यल्पाहाराद्वा "कार्याक्षमत्वात् यदु ह वा आत्मसंमितमन् यद्यो हिनस्ति तद्यत्कनीयो न तदवति" इति शतप नाऽऽत्मसंमितादन्नादधिकं न्यून वाऽश्नीयादित्यर्थः । अथवा-
"पूरयेदशनेनार्धं तृतीयमुदकेन तु । |
इत्यादियोगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाऽश्नतो योगो न संपद्यत इत्यर्थः । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति हेऽर्जुन सावधानो भवेत्यभिप्रायः । एकश्चकार उक्ताहारातिक्रमसमचार्थ, मार्कण्डेयपुराणे-
नाऽऽध्मातः |
श्री०टी०---योगाभ्यासनिष्ठस्याऽऽहारादिनियममाह द्वाभ्याम्-नेति । अत्यन्तमधिकं भुञ्जानस्यैकान्तमत्यन्तमभुञ्जानस्यापि योगः समाधिर्न भवति । तथाऽतिनिद्राशीलस्यातिजाग्रतश्च योगो नैवास्ति ॥ १६ ॥[१]
- ↑ क. ञ. रतिं प्रा।