पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
[अ०६क्ष्लो०२८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


समाधिसाधनानामनुष्ठानसामर्थेऽप्यननुष्ठानशीलता विषयान्तरव्यापृततया योगसाधनेष्वौदासीन्यमिति यावत् । आलस्यं सत्यामप्यौदासीन्यप्रच्युतौ कफादिना तमसा च कायचित्तयोर्गुरुत्वम् । तच्च] व्याधित्वेनाप्रसिद्धमपि योगविषये प्रवृत्तिविरोधि । अविरतिश्चित्तस्य विषयविशेष ऐकान्तिकोऽभिलाषः । भ्रान्तिदर्शनं योगासाधनेऽपि तत्साधनत्वबुद्धिस्तथा तत्साधनेऽप्यसाधनत्वबुद्धिः । अलब्धभूमिकत्वं समाधिभूमेरेकाग्रताया अलाभः क्षिप्तमूढविक्षिप्तरूपत्वमिति यावत् । अनवस्थितत्वं लब्धायामपि समाधिभूमौ प्रयत्नशैथिल्याच्चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इति चाभिधीयन्ते । “ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः " दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच्चाऽऽध्यात्मिकं शारीरं मानसं च व्याधिवशात्कामादिवशाच्च भवति । आधिभौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितं द्वेषाख्यविपर्ययहेतुत्वात्समाधिविरोधि । दौर्मनस्यमिच्छाविघातादिबलवदुःखानुभवजनितश्चित्तस्य तामसः परिणामविशेषः क्षोभापरपर्यायः स्तब्धीमावः । स तु कषायत्वाल्लयवत्समाधिविरोधी । अङ्गमेजयत्वमङ्गकम्पनमासनस्थैर्यविरोधि । प्राणेन बाह्यस्य वायोरन्तःप्रवेशनं श्वासः समाध्यङ्गरेचकविरोधी । प्राणेन कोष्ठ्यस्य वायोर्बहिनिःसरणं प्रश्वासः समाध्यङ्गपूरकविरोधी । समाहितचित्तस्यैते न भवन्ति विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवोऽन्तराया एव । एतेऽभ्यासवैराग्याम्यां निरोद्धव्याः । ईश्वरप्रणिधानेन वा । तीव्रसंवेगानामासन्ने समाधिलाभे प्रस्तुत ईश्वरप्रणिधानाद्वेति पक्षान्तरमुक्त्वा प्रणिधेयमीश्वरं " क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" " तत्र निरतिशयं सर्वज्ञबीजं" " स पूर्वेषामपि गुरुः कालेनानवच्छे- दात् " इति त्रिभिः सूत्रैः प्रतिपाद्य तत्प्रणिधानं द्वाभ्यामसूत्रयत्-" तस्य वाचकः प्रणवः " " तज्जपस्तदर्थभावनम् " इति । " ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च " ततः प्रणवजपरूपात्तदर्थध्यानरूपाच्चेश्वरप्रणिधानात्प्रत्यक्चेतनस्य पुरुषस्य प्रकृतिविवेकेनाधिगमः साक्षात्कारो भवति । उक्तानामन्तरायाणामभावोऽपि भवतीत्यर्थः । अभ्यासवैराग्याभ्यामन्तरायनिवृत्तौ कर्तव्यायामभ्यासदार्ढ्यार्थमाह-" तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः" तेषामन्तरायाणां प्रतिषेधार्थमेकस्मिन्कस्मिंश्चिदभिमते तत्वेऽभ्यासश्वेतसः पुनः पुनर्निवेशनं कार्यम् । तथा “ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनं " मैत्री सौहार्दं, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यं, सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्ते । सर्वप्राणिषु सुखसंभोगापन्नेषु साध्वेतन्मम मित्राणां सुखित्वमिति मैत्रीं भावयेत्, न त्वीर्ष्या॑म् । दुःखितेषु कंथनु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव भावयेत् , नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्ष कुर्यान्न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च विगतरागद्वेषादि-