पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०२९]
२१५
श्रीमद्भगवद्गीता।


मलं चित्तं प्रसन्नं सदेकाग्रतायोग्यं भवति । मैत्र्यादिचतुष्टयं चोपलक्षणमभयं सत्त्वसंशुद्धिरित्यादीनाममानित्वमदम्मित्वमित्यादीनां च धर्माणां, सर्वेषामेतेषां शुभवासनारूपत्वेन मलिनवासनानिवर्तकत्वात् । रागद्वेषौ महाशत्रू सर्वपुरुषार्थप्रतिबन्धको महता प्रयत्नेन परिहर्तव्यावित्येतत्सूत्रार्थः । एवमन्येऽपि प्राणायामादय उपायाश्चित्तप्रसादनाय दर्शिताः । तदेतचित्तप्रसादनं भगवदनुग्रहेण यस्य जातं तं प्रत्येवैतद्वचनं-सुखेनेति । अन्यथा मनःप्रशमानुपपत्तेः ॥ २८ ॥

 श्री० टी०-ततश्च कृतार्थो भवतीत्याह-युञ्जनिति । एवमनेन प्रकारेण सर्वदाऽऽत्मानं मनो युञ्जन्वशीकुर्वन्विशेषेण सर्वात्मना गतं कल्मषं यस्य स योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कारस्तदेवात्यन्तं सर्वोत्तमं सुखमश्र्नुते जीवन्मुक्तो भवतीत्यर्थः ॥ २८ ॥

 म०टी०-तदेवं निरोधसमाधिना त्वंपदलक्ष्ये तत्पदलक्ष्ये च शुद्धे साक्षात्कृते तदैक्यगोचरा तत्त्वमसीतिवेदान्तवाक्यजन्या निर्विकल्पकसाक्षात्काररूपा वृत्तिर्ब्रह्मविद्याभिधाना जायते । ततश्च कृत्स्नाविद्यातत्कार्यनिवृत्त्या ब्रह्मसुखमत्यन्तमश्नुत इत्युपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्वंपदलक्ष्योपस्थितिमाह----

सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि ॥
ईक्षते योगयुक्तात्मा सर्वत्रसमदर्शनः ॥ २९ ॥

 सर्वेषु भूतेषु स्थावरजङ्गमेषु शरीरेषु भोक्तृतया स्थितमेकमेव नित्यं विभुमात्मानं प्रत्यक्चेतनं साक्षिणं परमार्थसत्यमानन्दघनं साक्ष्येभ्योऽनृतजडपरिच्छिन्नदुःखरूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश्चाऽऽत्मनि साक्षिणि[१] सर्वाणि भूतानि साक्ष्याण्याध्यासिकेन संबन्धेन भोग्यतया कल्पितानि साक्षिसाक्ष्ययोः संबन्धान्तरानुपपत्तेमिथ्याभूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते । कः, योगयुक्तात्मा योगेन निर्विचारवैशारद्यरूपेण युक्तः प्रसादं प्राप्त आत्माऽन्तःकरणं यस्य स तथा । तथाच प्रागेवोक्तं-" निर्विचारवैशारद्येऽध्यात्मप्रसादः " " ऋतंभरा तत्र प्रज्ञा "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्" इति । तथा च शब्दानुमानागोचरयथार्थविशेषवस्तुगोचरयोगजप्रत्यक्षेण ऋतंभरसंज्ञेन युगपत्सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यमेव पश्यतीति सर्वत्र समं दर्शनं तस्येति सर्वत्रसमदर्शनः सन्नात्मानमनात्मानं च योगयुक्तात्मा यथावस्थितमीक्षत इति युक्तम् । अथवा यो योगयुक्तात्मा यो वा सर्वत्रसमदर्शनः स आत्मानमीक्षत इति योगिसमदर्शिनावात्मेक्षणाधिकारिणावुक्तौ । यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुस्तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि । नावश्यं योग एवापेक्षितः । अत एवाऽऽह वसिष्ठः-


  1. छ. "णि सर्वोपद्रवरहिते स ।