स्फुरणादीनि पश्यामि अनुभवामि । अतोऽपि नावस्थातुं शक्नोमीत्यर्थः । अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वं तु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम् । अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः । केशवपदेन च तत्करणसामर्थ्यं को ब्रह्मा सृष्टिकर्ता,
ईशो रुद्रः संहर्ता तौ वात्यनुकम्प्यतया गच्छतीति तद्व्युत्पत्तेः । भक्तदुःखकर्षित्वं वा
कृष्णपदेनोक्तं केशवपदेन च केश्वादिदुष्टदैत्यनिवर्हणेन सर्वदा भक्तान्पालयसीत्यतो
मामपि शोकनिवारणेन पालयिष्यसीति सूचितम् ॥ ३० ॥
श्री० टी०--अन्यच्च-न चेति । विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि पश्यामि ॥ ३० ॥
म० टी०--एवं लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा संप्रति तत्कारितां विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
श्रेयः पुरुषार्थं दृष्टमद्दष्टं वा बहुविचारणादनु पश्चादपि न पश्यामि अस्वजनमपि युद्धे हत्वा श्रेयो न[१] पश्यामि ।
"द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । |
इत्यादिना हतस्यैव श्रेयोविशेषाभिधानात् । हन्तुस्तु न किंचित्सुकृतम् । एवमस्वजनवधेऽपि श्रेयसोऽभावे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनामत्युक्तम् । एवमनाहववधे श्रेयो नास्तीतिसिद्धसाधनवारणायाऽऽहव इत्युक्तम् ॥ ३१ ॥
म० टी०----ननु मा भूदद्दष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयो राज्यं सुखानि च निर्विवादानीत्यत आहे---
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ |
फलाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम् । अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः । कुतः पुनरितरपुरुषौरिष्यमाणेषु तेषु तवानिच्छेत्यत आह–किं न इति । भोगैः सुखैर्जीवितेन जीवितसाधनेन विजयेनेत्यर्थः । विना राज्यं भोगान्कौरवविजयं च वने निवसतामस्माकं तेनैव जगति श्लाघनीयजीवितानां किभेभिराकाङ्क्षतैरिति भावः । गोशब्दवाच्यानीन्द्रियाण्यधि-
- ↑ ग. घ. च. छ. न लोके ।