पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०३९-४०]
२३१
श्रीमद्भगवद्गीता।


 श्री०टी०-प्रश्नाभिप्रायं विवृणोति-कञ्चिदिति । कर्मणामीश्वरेऽर्पितत्वादननुष्ठानाच्च नतावत्कर्मफलं स्वर्गादिकं प्राप्नोति योगानिष्पत्तेश्च न मोक्षं प्राप्नोति । एवमुभयस्माद्भष्टोऽप्रतिष्ठो निराश्रयः । अत एव ब्रह्मणः प्राप्त्युपाये पथि मार्गे विमूढः सन्कञ्चित्किं नश्यति किं वा न नश्यतीत्यर्थः । नाशे दृष्टान्तः--यथा छिन्नमभ्रं पूर्वस्मादभ्राद्विक्ष्लिष्टमभ्रान्तरं चाप्राप्तं सन्मध्य एव विलीयते तद्व[१]दिति ॥ ३८ ॥

 म०टी०-यथोपदर्शितसंशयापाकरणाय भगवन्तमन्तर्यामिणमर्थयते पार्थ:-

एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः ॥
त्वदन्यः संशयस्यास्य च्छेत्ता न घुपपद्यते ॥३९॥

 एतदेतं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्माघुच्छेदेन । मदन्यः कश्चिदृषिर्वा देवो वा त्वदीयमिमं संशयमुच्छेत्स्यतीत्याशङ्कयाऽऽह-त्वदन्यः , त्वत्परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्योऽनीश्वरत्वेनासर्वज्ञः कश्चिदृषिर्वा देवो वाऽस्य योगभ्रष्टपरलोकगतिविषयस्य संशयस्य च्छेत्ता सम्यगुत्तरदानेन नाशयिता हि यस्मान्नोपपद्यते न संभवति तस्मात्त्वमेव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम च्छेत्तुमर्हसीत्यर्थः ॥ ३९ ॥

 श्री० टी०-त्वयैव सर्वज्ञेनायं मम संदेहो निरसनीयः, त्वत्तोऽन्य[२]स्तु संदेहनिवर्तको नास्तीत्याह-एतन्म इति । एतदेन छेत्ता निवर्तकः । स्पष्टमन्यत् ॥ ३९ ॥

 म० टी०-एवमर्जुनस्य योगिनं प्रति नाशाशङ्कां परिहरन्नुत्तरम्-

श्रीतगवानुवाच-
 पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ॥
 न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति ॥४०॥

 उभयविभ्रष्टो योगी नश्यतीति कोऽर्थः । किमिह लोके शिष्टगर्हणीयो भवति वेदविहितकर्मत्यागात् , यथा कश्चिदृच्छ्टङ्खलः, किं वा परत्र निकृष्टां गतिं प्राप्नोति । यथोक्तं श्रुत्या " अथैतयोः पथोर्न कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकम्" इति । तथा चोक्तं मनुना-" वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाञ्च्युतः" इत्यादि । तदुभयमपि नेत्याह-हे पार्थ नैवेह नामुत्र विनाशस्तस्य यथाशास्त्रं कृतसर्वकर्मसंन्यासस्य सर्वतो विरक्तस्य गुरुमुपसृत्य वेदान्तश्रवणादि कुर्वतोऽन्तराले मृतस्य योगभ्रष्टस्य विद्यते । उभयत्रापि तस्य विनाशो नास्तीत्यत्र हेतुमाह हि यस्मात्कल्याणकृच्छास्त्रविहितकारी कश्चिदपि दुर्गतिमिहाकीर्ति परत्र च कीटादिरूपतां न गच्छति ।


  1. क. 'दित्यर्थः ॥ ३८ ॥
  2. क. न्यस्त्वेतत्संदे।