पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
[अ०६ क्ष्लो०४०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


अयं तु सर्वोत्कृष्ट एव सन्दुर्गतिं न गच्छतीति किमु वक्तव्यमित्यर्थः । तनोत्यात्मानं पुत्ररूपेणेति पिता तत उच्यते । स्वार्थिकेऽणि तत एव तातो राक्षसवायसादिवत् । पितैव च पुत्ररूपेण भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति संबोधनं कृपातिशयसूचनार्थम् । यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देवयानपितृयान(ण)मार्गान्यतरासंबन्धित्वात्स्वधर्मभ्रष्टवदिति, तदयुक्तम् , एतस्य देवयानमार्गसंबन्धित्वेन हेतोरसिद्धत्वात् । पञ्चाग्निविद्यायां य इत्थं विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽचिरभिसंभवन्तीत्यविशेषेण पञ्चाग्निविदामिवातत्ऋतूनां श्रद्धासत्यवतां मुमुक्षूणामपि देवयानमार्गेण ब्रह्मलोकप्राप्तिकथनात् । श्रवणादिपरायणस्य च योगभ्रष्टस्य [१]श्रद्धान्वितो भूत्वेत्यनेन श्रद्धायाः प्राप्तत्वात् , शान्तो दान्त इत्यनेन चानृतभाषणरूपवाग्व्यापारनिरोधरूपस्य सत्यस्य लब्धत्वात् । बहिरिन्द्रियाणामुच्छृङ्खलव्यापारनिरोधो हि दमः । योगशास्त्रे चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति योगाङ्गत्वेनोक्तत्वात् । यदि तु सत्यशब्देन ब्रह्मैवोच्यते तदाऽपि न क्षतिः, वेदान्तश्रवणादेरपि सत्यब्रह्मचिन्तनरूपत्वात् । अतत्क्रतुत्वेऽपि च पञ्चाग्निविदामिव ब्रह्मलोकप्राप्तिसंभवात् । तथाच स्मृतिः " संन्यासाद्ब्रह्मणः स्थानम् " इति । तथा प्रात्यहिकवेदान्तवाक्यविचारस्यापि कृच्छ्राशीतिफलतुल्यफलत्वं स्मर्यते[२] । एवं च संन्यासश्रद्धासत्यब्रह्मविचाराणामन्यतमस्यापि ब्रह्मलोकप्राप्तिसाधनत्वात्समुदितानां तेषां तत्साधनत्वं किं चित्रम् । अत एव सर्वसुकृतरूपत्वं योगिचरितस्य तैत्तिरीया आमनन्ति " [३]तस्यैवं विदुषो यज्ञस्य " इत्यादिना । स्मर्यते च-

" स्नातं तेन समस्ततीर्थसलिले सर्वाऽपि दत्ताऽवनि-
र्यज्ञानां च कृतं सहस्रमखिला देवाश्च संपूजिताः ॥
संसाराच्च समुद्धताः स्वपितरत्रैलोक्यपूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्राप्नुयात् ' " इति ॥ ४० ॥

 श्री० टी०-अत्रोत्तरं श्रीभगवानुवाच पार्थेति सार्धैश्चतुभिः-इह लोके नाश उभयभ्रंशात्पातित्यम् । अमुत्र परलोके नाशो नरकप्राप्तिः । तदुभयं तस्य नास्त्येव । यतः कल्याणकृच्छुभकारी कश्चिदपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्धया योगे प्रवृत्तत्वात् । तातेति लोकरीत्योपलालयन्संबोधयति ॥ ४० ॥

 म०टी०-तदेवं योगभ्रष्टस्य शुभकृत्त्वेन लोकद्वयेऽपि नाशाभावे किं भवतीत्युच्यते-


  1. ख. ग. च. छ. ज, श्रद्धावित्तो । ङ. भ. श्रद्धाचित्तो।
  2. ग.ते-दिने दिने च वेदान्तश्रवणाद्भक्तिसंयुतात् । गुरुशश्रुषया लब्धात्कृच्छाशीतिफलं लभेत् । ए ।
  3. क. ख. ग. घ. ङ. छ. ज. श.न, तस्य ह वा एवं ।