पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
[अ०७क्ष्लो०१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तकम्पादिकमुपाधिगतं विकारसहस्त्रमनुभवति । तदेतदाह-दुरत्ययेति । बिम्बभूतेश्वरैक्यसाक्षात्कारमन्तरेणात्येतुं तरितुमशक्येति दुरत्यया । अत एव जीवोऽन्तःकरणावच्छिन्नत्वात्तत्संबद्धमेवाक्ष्यादिद्वारा भासयन्किंचिज्ज्ञो भवति । ततश्च जानामि करोमि भुञ्जे चेत्यनर्थशतभाजनं भवति । स चेद्विम्बभूतं भगवन्तमनन्तशक्तिं मायानियन्तारं सर्वविदं सर्वफलदातारमनिशमानन्दधनमूर्तिमनेकानवतारान्भक्तानुग्रहाय विदधतमाराधयति परमगुरुमशेषकर्मसमर्पणेन तदा बिम्बसमर्पितस्य प्रतिबिम्बे प्रतिफलनात्सर्वानपि पुरुषार्थानासादयति । एतदेवाभिप्रेत्य प्रह्लादेनोक्तम् -

" नैवाऽऽत्मनः प्रभुरयं निजलाभपूर्णो
 मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं
 तच्चाऽऽत्मने प्रतिमुखस्य यथा मुखश्रीः " इति ॥

 दर्पणप्रतिविम्बितस्य मुखस्य तिलकादिश्रीरपेक्षिता चेद्विम्बभूते मुखे समर्पणीया । सा स्वयमेव तत्र प्रतिफलति नान्यः कश्चित्तत्प्राप्तावुपायोऽस्ति यथा तथा बिम्बभूतेश्वरे समर्पितमेव तत्प्रतिबिम्बभूतो जीवो लभते नान्यः कश्चित्तस्य पुरुषार्थलाभेऽस्त्युपाय इति दृष्टा[१]न्तदार्ष्टान्तिकयोरर्थः । तस्य यदा भगवन्तमनन्तमनवरतमाराधयतोऽन्तःकरणं ज्ञाप्रतिबन्धकपापेन रहितं ज्ञानानुकूलपुण्येन चोपचितं भवति तदाऽतिनिर्मले मुकुरमण्डल इव मुखमतिस्वच्छेऽन्तःकरणे सर्वकर्मत्यागशमदमादिपूर्वकगुरूपसदनवेदान्तवाक्यश्रवणमनननिदिध्यासनैः संस्कृते तत्त्वमसीतिगुरूपदिष्टवेदान्तवाक्यकरणिकाऽहं ब्रह्मास्मीत्यनात्माकारशून्या निरुपाधिचैतन्याकारा साक्षात्कारात्मिका वृत्तिरुदेति । तस्यां च प्रतिफलितं चैतन्यं सद्य एव स्वविषयाश्रयामविद्यामुन्मूलयति दीप इव तमः । ततस्तस्या नाशात्तया वृत्त्या सहाखिलस्य कार्यप्रपञ्चस्य नाशः, उपादाननाशादुपादेयनाशस्य सर्वतन्त्रसिद्धान्तसिद्धत्वात् । तदेतदाह भगवान् - " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते " इति । आत्मेत्येवोपासीत तदात्मानमेवावेत्तमेव धीरो विज्ञाय तमेव विदित्वाऽति मृत्युमेतीत्यादिश्रुतिष्विवेहापि मामेवेत्येवकारोऽप्यनुपरक्तताप्रतिपत्त्यर्थः । मामेव सर्वोपाधिविरहितं चिदानन्दसदात्मानमखण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निर्विकल्पकसाक्षात्काररूपया निर्वचनानर्हशुद्धचिदाकारत्वधर्मविशिष्टया सर्वसुकृतफलमूतया निदिध्यासनपरिपाकप्रसूतया चेतोवृत्त्या सर्वाज्ञानतत्कार्यविरोधिन्या विषयी कुर्वन्ति ते ये केचिदेतां दुरतिक्रमणीयामपि मायामखिलानर्थजन्मभुवमनायासेनैव तरन्ति अतिक्रामन्ति "तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति" इति श्रुतेः । सर्वोपाधिनिवृत्त्या सच्चिदानन्दघनरूपेणैव तिष्ठन्तीत्यर्थः । बहुवचनप्रयोगो देहेन्द्रि[२]यादिसंघातभे-


  1. क. ख. ग. घ. इ. च. ज. झ, अ. टान्तार्थः ।
  2. ख. ग. घ. कु. च. छ. ज. झ.भ. "न्द्रियसं।