येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ॥ |
येषां तु इतरलोकविलक्षणानां जनानां सफलजन्मनां पुण्यकर्मणामनेकजन्मसु पुण्याचरणशीलानां तैस्तैः पुण्यैः कर्मभिज्ञानप्रतिबन्धकं पापमन्तगतमन्तमवसानं प्राप्तं ते पापाभावेन[१] तन्निमित्तेन द्वंद्वमोहेन रागद्वेषादिनिबन्धनविपर्यासेन स्वत एव निर्मुक्ताः पुनरावृत्त्ययोग्यत्वेन त्यक्ता दृढव्रता अचाल्यसंकल्पाः सर्वथा भगवानेव भजनीयः स चैवरूप एवेति प्रमाणजनिताप्रामाण्यशङ्काशून्यविज्ञानाः सन्तो मां परमात्मानं भजन्तेऽनन्यशरणाः सन्तः सेवन्ते । एतादृशा एव चतुर्विधा भजन्ते मामित्यत्र सुकृतिशब्देनोक्ताः । अतः सर्वभूतानि संमोहं यान्तीत्युत्सर्गः । तेषां मध्ये ये सुकृतिनस्ते संमोहशून्या मां भजन्त इत्यपवाद इति न विरोधः । अयमेवोत्सर्गः प्रागपि प्रतिपादितस्त्रिभिर्गुणमयीर्भावैरित्यत्र । तस्मात्सत्त्वशोधकपुण्यकर्मसंचयाय सर्वदा यतनीयमिति भावः ॥ २८॥
श्री०टी०-कुतस्तर्हि केचन त्वां भजन्तो दृश्यन्ते तत्राऽऽह-येषामिति । येषां तु पुण्याचरणशीलानां सर्व प्रतिबन्धकं पापमन्तगतं नष्टं ते द्वंद्वनिमित्तेन मोहेन निर्मुक्ता दृढव्रता एकान्तिनः सन्तो मां भजन्ते ॥ २८ ॥
म०टी०-अथेदानीमर्जुनस्य प्रश्नमुत्थापयितुं सूत्रभूतौ श्लोकावुच्येते । अनयोरेव वृत्तिस्थानीय उत्तरोऽध्यायो भविष्यति-
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ॥ |
ये संसारदुःखान्निर्विण्णा जरामरणमोक्षाय जरामरणादिविविधदुःसहसंसारदुःखनिरासाय तदेकहेतुं मां सगुणं भगवन्तमाश्रित्येतरसर्ववैमुख्येन शरणं गत्वा यतन्ति यतन्ते मदर्पितानि फलाभिसंधिशून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धन्तःकरणाः सन्तस्तज्जगत्कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्पदलक्ष्यं मां विदुः । तथाऽऽत्मानं शरीरमधिकृत्य प्रकाशमानं कृत्स्नमुपाध्यपरिच्छिन्नं त्वंपदलक्ष्यं विदुः । कर्म च तदुभयवेदनसाधनं गुरूपसदनश्रवणमननाद्यखिलं निरवशेष फलाव्यभिचारि विदु नर्जान्तीत्यर्थः ॥ २९ ॥
श्री०टी०-एवं च मां भ[२]जन्तः सर्व विज्ञेयं विज्ञाय कृतार्था भवन्तीत्याह- जरामरणेति । जरामरणयोर्मोक्षाय निरासार्थ मामाश्रित्य ये प्रयतन्ते ते तत्परं ब्रह्म