पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९क्ष्लो०८-९]
२८५
श्रीमद्भगवद्गीता।

अचेतनस्य चाभोक्तृत्वात् । अत एव नापवर्गार्थाऽपि सृष्टिः, बन्धाभावादपवर्गविरोधित्वाच्चेत्याद्यनुपपत्तिः सृष्टेर्मायामयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्यभिप्रेत्य मायामयत्वान्मिथ्यात्वं प्रपञ्चस्य वक्तुमारमते त्रिभिः-

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ॥
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

 प्रकृति मायाख्यामनिर्वचनीयां खां स्वस्मिन्कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां. दृढीकृत्य तस्याः प्रकृतेर्मायाया वशादविद्यास्मितारागद्वेषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं सर्वप्रमाणसंनिधापितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनः पुनर्विसृजामि विविधं सृजामि कल्पनामात्रेण स्वप्नदृगिव च स्वप्नप्रपञ्चम् ॥ ८॥

 श्री० टी०-नन्वसङ्गो निर्विकारश्च त्वं कथं सृजसीत्यपेक्षायामाह-प्रकृतिमिति । खां स्वीयां स्वाधीनां प्रकृतिमवष्टम्याधिष्ठाय प्रलये लीनं सन्तं चतुर्विधमिमं सर्वं भूतग्रामं कर्मादिपरवशं पुनः पुनर्विविधं सृजामि । कथं प्रकृतेर्वशात्प्राचीनकर्मनिमित्ततत्तत्स्वभा[१]वबलात् ॥ ८ ॥

 म०टी०-[२]अतः-

न च मां तानि कर्माणि निबध्नन्ति धनंजय ॥
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

 न च नैव सृष्टिस्थितिप्रलयाख्यानि तानि मायाविनेव स्वप्नदृशेव च मया क्रियमाणानि मां निबध्नन्ति अनुग्रहनिग्रहाभ्यां न सुकृतदुष्कृतभागिनं कुर्वन्ति मिथ्याभूतत्वात् , हे धनंजय युधिष्ठिरराजसूयार्थं सर्वान्राज्ञो जित्वा धनमाहृतवानिति महान्प्रभावः सूचितः प्रोत्साहनार्थम् । तानि कर्माणि कुतो न बध्नन्ति तत्राऽऽह-उदासीनवदासीनं, यथा कश्चिदुपेक्षको द्वयोर्विवदमानयोर्जयपराजयासंसर्गी तत्कृतहर्षविषादाभ्यामसंसृष्टो निर्विकार आस्ते तद्वन्निर्विकारतयाऽऽसीनम् । द्वयोर्विवदमानयोरिहाभावादुपेक्षकत्वमात्रसाधर्म्येण वतिप्रत्ययः । अत एव निर्विकारत्वात्तेषु सृष्ट्यादिकर्मस्वसक्तमहं करोमीत्यभिमानलक्षणेन सङ्गेन रहितं मां न निबध्नन्ति कर्माणीति युक्तमेव । अन्यस्यापि हि कर्तृत्वाभावे फलसङ्गाभावे च कर्माणि न बन्धकारणानीत्युक्तमनेन, तदुभयसत्त्वे तु कोशकार इव कर्मभिर्बध्यते मूढ इत्यभिप्रायः ॥ ९ ॥

 श्री० टी०-ननु एवं नानाविधानि कर्माणि कुर्वतस्तव जीववद्वन्धः कथं न स्यादित्याशङ्कयाऽऽह-न चेति । तानि सृष्ट्यादीनि कर्माणि मां न निबध्नन्ति ।


  1. घ. च. ववशात् ।
  2. घ, यतः ।