श्री० टी०-नन्वेवंभूतं परमेश्वरं त्वां किमिति केचिन्नाऽऽद्रियन्ते तत्राऽऽह---- अवजानन्तीति द्वाभ्याम् -सर्वभूतमहेश्वररूपं मदीयं परं भावं तत्त्वमजानन्तो मूढा मूर्खा मामवजानन्त्यवमन्यन्ते । अवज्ञाने हेतुः-शुद्धसत्त्वमयीमपि तनुं[१] भक्तेच्छावशान्मनुष्याकारामाश्रितवन्तम् ॥ ११ ॥
म०टी०-ते च भगवदवज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयो निरन्तरं निरयनिवासार्हा एव-
मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः॥ |
ईश्वरमन्तरेण कर्माण्येव नः फलं दास्यन्तीत्येवंरूपा मोघा निष्फलैवाऽऽशा फलप्रार्थना येषां ते । अत एवेश्वरविमुखत्वान्मोघानि श्रममात्ररूपाण्याग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघमीश्वराप्रतिपादककुतर्कशास्त्रजनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवदवज्ञानजनितदुरितप्रतिबद्धविवेकविज्ञानाः । किं च ते भगवदवज्ञानवशादाक्षसीं तामसीमविहितहिंसाहेतुद्वेषप्रधानामासुरीं च राजसीं शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधानां च मोहिनीं शास्त्रीयज्ञानभ्रंशहेतुं प्रकृतिं स्वभावमाश्रिता एव भवन्ति । ततश्च----
"त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । |
इत्युक्तनरकद्वारभागितया नरकयातनामेव ते सततमनुभवन्तीत्यर्थः ॥ १२ ॥
श्री०टी०-किं च-मोघाशा इति । मत्तोऽन्यद्देवतान्तर( दैवतं) क्षिप्रं फलं दास्यतीत्येवंभूता मोघा निष्फलैवाऽऽशा येषां ते । अत एव मद्विमुखत्वान्मोघानि व्यर्थानि कर्माणि येषां ते । मोघमेव नानाकुतर्काश्रितं शास्त्रज्ञानं येषां ते । अत एव विचेतसो विक्षिप्तचित्ताः । सर्वत्र हेतुः--राक्षसीं तामसीं हिंसादिप्रचुराम् , आसुरीं च राजसीं कामदर्पादिबहुलां मोहिनी बुद्धिभ्रंशकरी प्रकृति स्वभावं श्रिता आश्रिताः सन्तो मामवजानन्तीति पूर्वेणान्वयः ॥ १२ ॥
म०टी०-भगवद्विमुखानां फलकामनायास्तत्प्रयुक्तस्य नित्यनैमित्तिककाम्यकर्मानुष्ठानस्य तत्प्रयुक्तस्य शास्त्रीयज्ञानस्य च वैयर्थ्यात्पारलौकिकफलतत्साधनशून्यास्ते । नाप्यैहलौकिकं किंचित्फलमस्ति तेषां विवेकविज्ञानशून्यतया विचेतसो हि ते । अतः सर्वपुरुषार्थबाह्याः शोच्या एव सर्वेषां ते वराका इत्युक्तम् । अधुना के सर्वपुरुषार्थभाजोऽशोच्या ये भगवदेकशरणा इत्युच्यते---
- ↑ झ. नुं त्यक्त्वा भ।