पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
[अ०९ क्ष्लो० १३-१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतीकाभ्यां समेता-


महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः ॥
अजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

 महाननेकजन्मकृतसुकृतैः संस्कृतः क्षुद्रकामाद्यनभिभूत आत्माऽन्तःकरणं येषां तेऽत एव "अभयं सत्त्वसंशुद्धिः" इत्यादिवक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिमाश्रिताः । अत एवान्यस्मिन्मद्वयतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्वजगत्कारणमव्ययमविनाशिनं च मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥ १३ ॥

 श्री. टी. - के तर्हि त्वामाराधयन्तीत्यत आह-महात्मानस्त्विति । महात्मानः कामाद्यनभिभूतचित्ता यतः "अभयं सत्त्वसंशुद्धिः” इत्यादिना वक्ष्यमाणां दैवीं प्रकृतिं स्वभावमाश्रिता अत एव मद्व्यतिरेकेण नास्त्यन्यस्मिन्मनो येषां ते तु भूतादिं जगत्कारणमव्ययं नित्यं च मां ज्ञात्वा भजन्ति ॥ १३ ॥

 म०टी०-ते केन प्रकारेण भजन्तीत्युच्यते द्वाभ्याम्-

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः॥
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥१४॥

 सततं सर्वदा ब्रह्मनिष्ठं गुरुमुपसृत्य वेदान्तवाक्यविचारेण गुरूपसदनेतरकाले च प्रणवनपोपनिषदावर्तनादिभिर्मा सर्वोपनिषत्प्रतिपाद्यं ब्रह्मस्वरूपं कीर्तयन्तो वेदान्तशास्त्राध्ययनरूपश्रवणव्यापारविषयीकुर्वन्त इति यावत् । तथा यतन्तश्च गुरुसंनिधावन्यत्र वा वेदान्ताविरोधितर्कानुसंधानेनाप्रामाण्यशङ्कानास्कन्दितगुरूपदिष्टमत्स्वरूपावधारणाय यतमानाः श्रवणनिर्धारितार्थबाधशङ्कापनोदकतर्कानुसंधानरूपमननपरायणा इति यावत् । तथा दृढव्रता दृढानि प्रतिपक्षैश्वालयितुमशक्यानि अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शमदमादिसाधनसंपन्ना इति यावत् । तथा चोक्तं पतञ्जलिना “ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" ते तु "जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् " इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्थादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्यन्यत्वेनानवच्छिन्ना अहिंसादयः सार्वभौमाः क्षिप्तमूढविक्षिसभूमिष्वपि भाव्यमानाः कस्यामपि जातौ कस्मिन्नपि देशे कस्मिन्नपि काले यज्ञादिप्रयोजनेऽपि हिंसां न करिष्यामीत्येवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्ता एते महाव्रतमित्युच्यन्त इत्यर्थः । तथा नमस्यन्तश्च मां कायवाङ्मनोभिर्नमस्कुर्वन्तश्च मां भगवन्तं वासुदेवं सकलकल्याणगुणनिधानमिष्टदेवतारूपेण गुरुरूपेण च स्थितम् । चकारात्

" श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् "