पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
[अ०९क्ष्लो० १९-२०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ॥
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

 तपाम्यहमादित्यः सन् । ततश्च तापवशादहं वर्ष पूर्ववृष्टिरूपं रसं पृथिव्या निगृह्णाम्याकर्षामि कैश्चिद्रश्मिभिरष्टसु मासेषु । पुनस्तमेव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद्रश्मिभिरुत्सृजामि च वृष्टिरूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्वप्राणिनां जीवनं वा । एवकारस्याहमित्यनेन संबन्धः । मृत्युश्च मर्त्यानां सर्वप्राणिनां विनाशो वा । सत्, यत्संबन्धितया यद्विद्यते तत्तत्र सत् । असच्च यत्संबन्धितया यन्न विद्यते तत्तत्रासत् । एतत्सर्वमहमेव हेऽर्जुन । तस्मात्सर्वात्मानं मां विदित्वा स्वस्वाधिकारानुसारेण बहुभिः प्रकारैर्मामेवोपासत इत्युपपन्नम् ॥ १९॥

 श्री०टी०-किं च-तपामीति । आदित्यात्मना स्थित्वा निदाघसमये तपामि जगतस्तापं करोमि । वृष्टिसमये च वर्षमुत्सृजामि विमुञ्चामि । कदाचित्तु वर्ष निगृह्णामि आकर्षामि । अमृतं जीवनं, मृत्युश्च नाशः, सत्स्थूलं दृश्यम् , असञ्च सूक्ष्ममदृश्यम् । एतत्सर्वमहमेवेति मत्वा मामेव बहुधोपासत इति पूर्वेणैवान्वयः ॥ १९ ॥

 म०टी०--एवमेकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तमुपासीनाः सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तमुपासते किं तु स्वस्वकामसाधनानि काम्यान्येव काण्यनुतिष्ठन्ति ते सत्त्वशोधकाभावेन ज्ञानसाधनमनधिरूढाः पुनः पुनर्जन्ममरणप्रबन्धेन सर्वदा संसारदुःखमेवानुभवन्तीत्याह द्वाभ्याम्----

त्रैविद्या मां सोमपाः पूतपापा
 यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥
ते पुण्यमासाद्य सुरेन्द्रलोक-
 मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥

 ऋग्वेदयजुर्वेदसामवेदलक्षणा हौत्राध्वर्यवौद्गात्रप्रतिपत्तिहेतवस्तिस्रो विद्या येषां ते त्रिविद्यास्त्रिविद्या एव स्वार्थिकतद्धितेन त्रैविद्यास्तिस्त्रो विद्या विदन्तीति वा वेदत्रयविदो याज्ञिका यज्ञैरग्निष्टोमादिभिः क्रमेण सवनत्रये वसुरुद्रादित्यरूपिणं मामीश्वरमिष्ट्या तद्रूपेण मामजानन्तोऽपि वस्तुवृत्तेन पूजयित्वाऽभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस्तेनैव सोमपानेन पूतपापा निरस्तस्वर्गभोगप्रतिबन्धकपापाः सकामतया स्वर्गतिं प्रार्थयन्ते न तु सत्त्वशुद्धिज्ञानोत्पत्त्यादि । ते दिवि स्वर्गे लोके पुण्यं पुण्यफलं सर्वोत्कृष्टं सुरेन्द्रलोकं शतक्रतोः स्थानमासाद्य दिव्यान्मनुष्यैरलभ्यान्देवभोगान्देवदेहोपभोग्यान्कामानश्नन्ति भुञ्जते ॥ २० ॥