श्री० टी०-भजनप्रकारं दर्शयन्नुपसंहरति-मन्मना इति । मय्येव मनो यस्य
स मन्मनास्त्वं भव । तथा मद्भक्तो मत्सेवको भव । मद्याजी मद्यजनशीलो भव ।
मामेव च नमस्कुरु । एवमेभिः प्रकारैर्मत्परायणः सन्नात्मानं मनो मयि युक्त्वा समाधाय मामेव परमानन्दरूपमेष्यसि प्राप्स्यसि ॥ ३४ ॥
निजमैश्वर्यमाश्चर्यं भक्तेश्चाद्भुतवैभवम् । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां राजविद्यारा.
जगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥
अथ दशमोऽध्यायः।
म०टी०-एवं सप्तमाष्टमनवमैस्तत्पदार्थस्य भगवतस्तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपायभूता रसोऽहमप्सु कौन्तेयेत्यादिना सप्तमे, अहं ऋतुरहं यज्ञ इत्यादिना नवमे च संक्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वमपि दुर्विज्ञेयत्वात्पुनस्तस्य वक्तव्यं ज्ञानायेति दशमोऽध्याय आरभ्यते । तत्र प्रथममर्जुनं प्रोत्साहयितुम् -
श्रीभगवानुवाच- |
भूय एव पुनरपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत्ते तुभ्यं प्रीयमाणाय मदचनादमृतपानादिव प्रीतिमनुभवते वक्ष्याम्यहं परमाप्तस्तव हितकाम्ययेष्टप्राप्तीच्छया ॥ १ ॥
श्री०टी०- उक्ताः संक्षेपतः पूर्व सप्तमादौ विभूतयः । |
एवं तावत्सप्तमादिभिस्त्रिभिरध्यायैर्भजनीयं परमेश्वररूपं निरूपितम् । तद्विभूतयश्च सप्तमे “ रसोऽहमप्सु कौन्तेय " इत्यादिना संक्षेपतो दर्शिताः । अष्टमे “कि तद्ब्रह्म किमध्यात्मम्" इत्यादिनाऽर्जुनाय(नेन) सप्त पदार्था उपन्यस्तास्ताः परमेश्वरस्य विभूतय एव साधिभूताधिदैवमित्युक्तत्वात् । नवमे च "अहं क्रतुरहं यज्ञः" इत्यादिना