पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१०क्ष्लो०२-]
३०३
श्रीमद्भगवद्गीता।


तद्विभूतयो दर्शिताः । अथेदानी ता एव विभूतीः प्रपञ्चयिष्यन्वभक्तेश्वावश्यकरणीयत्वं वर्णयिष्यश्रीभगवानुवाच-भूय एवेति । महान्तौ युद्धादिस्वधर्मानुष्ठाने महत्परिचर्यायां च कुशलौ बाहू यस्य हे महाबाहो भूय एव पुनरपि मे वचः शृणु । कथंभूतम्, परमं परमार्थनिष्ठं, मद्वचसाऽमृतेनेव प्रीतिं प्राप्नुवते ते तुभ्यं हितकाम्यया हितेच्छया यदहं वक्ष्यामि तत् ॥ १ ॥

 म० टी०-प्रान्बहुधोक्तमेव किमर्थं पुनर्वक्ष्यसीत्यत आह-

न मे विदुः सुरगणाः प्रभवं न महर्षयः ॥
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२॥

 प्रभवं प्रभावं प्रभुशक्त्यातिशयं प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भाव वा सुरगणा इन्द्रादयो महर्षयश्च भृग्वादयः सर्वज्ञा अपि न मे विदुः । तेषां तदज्ञाने हेतुमाह- अहं हि यस्मात्सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैरुत्पादकत्वेन बुद्ध्यादिप्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वाऽऽदिः कारणम् । अतो मद्विकारास्ते मत्प्रभाव न जानन्तीत्यर्थः ॥ २ ॥

 श्री०टी०-उक्तस्यापि पुनर्वचने दुर्जेयत्वं हेतुमाह-न म इति । मे मम प्रकृष्टं भवं जन्मरहितस्यापि नानाविभूतिभिराविर्भावं सुरगणा अपि महर्षयो भृग्वादयोऽपि न जानन्ति । तत्र हेतु:--अहं हि देवानां महर्षीणां चाऽऽदिः कारणं सर्वशः सर्वप्रकारैरुत्पादकत्वेन बुद्धयादिप्रवर्तकत्वेन च । अतो मदनुग्रहं विना मां केऽपि न जानन्तीत्यर्थः ॥ २ ॥

 म०टी०-महाफलत्वाच्च कश्चिदेव भगवतः प्रभाव वेत्तीत्याह-

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ॥
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥

 सर्वकारणत्वान्न विद्यत आदिः कारणं यस्य तमनादिमनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं च मां यो वेत्ति स मर्त्येषु मनुष्येषु मध्येऽसंमूढः संमोहवर्जितः सर्वैः पापैर्मतिपूर्वकृतैरपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात्तत्संस्काराभावरूपेण मुच्यते मुक्तो भवति ॥ ३॥

  श्री०टी०-एवंभूतात्मज्ञाने फलमाह-यो मामिति । सर्वकारणत्वादेव न विद्यत आदिः कारणं यस्य तमनादिम् । अत एवाजं जन्मशून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येषु असंमूढः संमोहरहितः सन्सर्वपापैः प्रमुच्यते ॥ ३ ॥

 म०टी०-आत्मनो लोकमहेश्वरत्वं प्रपञ्चयति-