पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
[अ ०१०क्ष्लो ०१२-१३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


भवेदिति रूपकालंकारेण सूचितोऽर्थः । भास्वतेत्यनेन तीव्रपवनादेरिवासंभावनादेः प्रतिबन्धकस्यामावः सूचितः । ज्ञानस्य च दीपसाधर्म्यं स्वविषयावरणनिवर्तकत्वं स्वव्यवहारे सजातीयपरानपेक्षत्वं स्वोत्पत्त्यतिरिक्तसहकार्यनपेक्षत्वमित्यादि रूपकबीजं द्रष्टव्यम् ॥ ११॥

 श्री० टी०बुद्धियोगं दत्त्वा च तस्यानुभवपर्यन्ततामापाद्याविद्याकृत संसारं नाशयामीत्याह--तेषामिति । तेषामनुकम्पार्थमनुग्रहार्थमेवाज्ञानाज्जातं तमः संसाराख्यं नाशयामि। कुत्र स्थितः सन्केन वा साधनेन तमो नाशयसीत्यत आह-आत्मभावस्थो बुद्धिवृत्तौ स्थितः सन्भास्वता विस्फुरता ज्ञानलक्षणेन दीपेन नाशयामि ॥ ११ ॥

 म० टी०--एवं भगवतो विभूति योगं च श्रुत्वा परमोत्कण्ठितः-

 अर्जुन उवाच-

परं ब्रह्म परं धाम पवित्रं परमं भवान् ॥
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

 परं ब्रह्म परं धाम, आश्रयः प्रकाशो वा, परमं पवित्रं पावनं च भवानेव । यतः पुरुष परमात्मानं शाश्वतं सर्वदैकरूपं दिवि परमे व्योम्नि स्वस्वरूपे भवं दिव्यं सर्वप्रपञ्चातीतमादि च सर्वकारणं देवं च द्योतनात्मकं स्वप्रकाशमादिदेवमत एवाजं विभुं सर्वगतं त्वामाहुरिति संबन्धः ॥ १२ ॥

आहुस्त्वामृषयः सर्वे देवर्षिनारदस्तथा ॥
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥

 म.टी---आहुः कथयन्ति त्वामनन्तमहिमानमृषयस्तत्त्वज्ञाननिष्ठाः सर्वे भृगुवसिष्ठादयः । तथा देवर्षिनर्नारदोऽसितो देवलश्च धौम्यस्य ज्येष्ठो भ्राता, व्यासश्च भगवान्कृष्णद्वैपायनः । एतेऽपि त्वां पूर्वोक्तविशेषणं मे मह्यमाहुः साक्षात्किमन्यवक्तृभिः स्वयमेव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वेऽपि साक्षाद्वक्तॄणां नारदादीनामतिविशिष्टत्वात्पृथग्प्रहणम् ॥ १३ ॥

 श्री०टी०-संक्षेपेणोक्ता विभूतीविस्तरेण जिज्ञासुभगवन्तं स्तुवन्नर्जुन उवाच परं ब्रह्मेति सप्तभिः-परं ब्रह्म च परं धाम चाऽऽश्रयः परमं च पवित्रं भवानेव । कुत इत्यत आह-~-यतः शाश्वतं नित्यं पुरुषं, तथा दिव्यं द्योतनात्मकं स्वप्रकाशं च । आदिश्चासौ देवश्च तं देवानामादिभूतमित्यर्थः । तथाऽजमजन्मानं विभुं च व्यापकं त्वामेवाऽऽहुः । के, ऋषयो भग्वादयः सर्वे, देवर्षिश्च नारदः, असितश्च देवलश्च व्यासश्च स्वयं त्वमेव च साक्षान्मे मह्यं ब्रवीषि ॥ १२ ॥ १३ ॥