न केवलं प्रव्यथित एवाहं त्वां दृष्ट्वा किं तु प्रव्यथितोऽन्तरात्मा
मनो यस्य सोऽहं धृतिं धैर्यं देहेन्द्रियादिधारणसामर्थ्यं शमं च मनःप्रसाद न
विन्दामि न लभे हे विष्णो । त्वां कीदृशं नभःस्पृशमन्तरिक्षव्यापिनं दीप्तं प्रज्वलितमनेकवर्णं भयंकरनानासंस्थानयुक्तं व्यात्ताननं विवृतमुखं दीप्तविशालनेत्रं प्रज्वलितविस्तीर्णचक्षुषं त्वां दृष्ट्वा हि एव प्रव्यथितान्तरात्माऽहं धृतिं शमं च न विन्दामीत्यन्वयः ॥ २४ ॥
श्री०टी०-न केवलं भीतोऽहमित्येतावदेव, अपि तु-नभःस्पृशमिति । नमः स्पृशतीति नमःस्पृक्तमन्तरिक्षव्यापिनमित्यर्थः । दीप्तं तेजोयुक्तम् । अनेके वर्णा यस्य तमनेकवर्णम् । व्यात्तानि विवृतान्याननानि यस्य तम् । दीप्तानि विशालानि नेत्राणि यस्य तम् । एवंभूतं त्वां दृष्ट्वा प्रव्यथितोऽन्तरात्मा मनो यस्य सोऽहं धृतिं धैर्यमुपशमं च न लभे ॥ २४ ॥
दंष्ट्राकरालानि च ते मुखानि |
म०टी०-दंष्ट्राभिः करालानि विकृतत्वेन भयंकराणि प्रलयकालानलसदृशानि च ते मुखानि दृष्टैव न तु तानि प्राप्य भयवशेन दिशः पूर्वापरादिविवेकेन न जाने । अतो न लभे च शर्म सुखं त्वद्रूपदर्शनेऽपि । अतो हे देवेश हे जगन्निवास प्रसीद प्रसन्नो भव मां प्रति । यथा भयाभावेन त्वदर्शनजं सुखं प्राप्नुयामिति शेषः ॥ २५ ॥
श्री०टी०-किं च-दंष्ट्रेति । भो देवेश तव मुखानि दृष्ट्वा भयावेशेन दिशो न जानामि । शर्म च सुखं न लमे । भो जगन्निवास प्रसन्नो भव । कीदृशानि मुखा[१]नि दंष्ट्राभिः करालानि । कालानलः प्रलयाग्निस्तत्सदृशानि ॥ २५ ॥
म०टी०---अस्माकं जयं परेषां पराजयं च सर्वदा द्रष्टुमिष्टं पश्य मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसीति भगवदादिष्टमधुना [२] पश्यामीत्याह पञ्चभिः-
अमी च त्वां धृतराष्ट्रस्य पुत्राः |