पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०३३]
३३७
श्रीमद्भगवद्गीता।


त्तोऽहमिहास्मिन्काले । मत्प्रवृत्तिं विना कथमेवं स्यादिति चेन्नेत्याह-ऋतेऽपि त्वा त्वामर्जुनं योद्धारं विनाऽपि त्वद्वयापारं विनाऽपि मद्वयापारेणैव न भविष्यन्ति विनङ्क्ष्यन्ति सर्वे भीष्मद्रोणकर्णप्रभृतयो योद्धुमनर्हत्वेन संभाविता अन्येऽपि येऽवस्थिताः प्रत्यनीकेषु प्रतिपक्षसैन्येषु योधा योद्धारः सर्वेऽपि मया हतत्वादेव न भविष्यन्ति । तत्र तव व्यापारोऽकिंचित्कर इत्यर्थः ॥ ३२॥

 श्री०टी०--एवं प्रार्थितः सञ्श्रीभगवानुवाच कालोऽस्मीति त्रिभिः-लोकानां क्षयकर्ता प्रवृद्धोऽ[१]त्युग्रः कालोऽस्मि लोकान्प्राणिनः संहर्तुमिह लोके प्रवृत्तोऽस्मि । अत ऋतेऽपि त्वा, इति त्वां हन्तारं विनाऽपि न भविष्यन्ति न जीविष्यन्ति । यद्यपि त्वया न हन्तव्या एते तथाऽपि मया कालात्मना ग्रस्ताः सन्तो मरिष्यन्त्येव । के ले, प्रत्यनीकेषु अनीकान्यनीकानि प्रति भीष्मद्रोणादीनां सर्वासु सेनासु ये योद्धारोऽवस्थितास्ते सर्वेऽपि ॥ ३२ ॥

 म० टी०-यस्मादेवम् -

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
 जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ॥
मयैवैते निहताः पूर्वमेव
 निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

 तस्मात्त्वव्यापारमन्तरेणापि यस्मादेते विनयन्त्येव तस्मात्त्वमुत्तिष्ठोद्युक्तो भव युद्धाय देवैरपि दुर्जया भीष्मद्रोणादयोऽतिरथा झटित्येवार्जुनेन निर्जिता इत्येवंभूतं यशो लभस्व । महद्भिः पुण्यैरेव हि यशो लभ्यते । अयत्नतश्च जित्वा शत्रून्दुर्योधनादीन्भुङ्क्ष्व स्वोपसर्जनत्वेन भोग्यता प्रापय समृद्धं राज्यमकण्टकम् । एते च तव शत्रवो भयैव कालात्मना निहताः संहृतायुषस्त्वदीययुद्धात्पूर्वमेव केवलं तव यशोलाभाय रथान्न पातिताः । अतस्त्वं निमित्तमात्रमर्जुनेनैते निर्जिता इति सार्वलौकिकन्यपदेशास्पदं भव हे सव्यसाचिन्सव्येन वामेन हस्तेनापि शरान्सचितुं संघातुं शीलं यस्य तादृशस्य तव भीष्मद्रोणादिजयो नासंभावितस्तस्मात्त्वव्द्यापारानन्तरं मया रथात्पात्यमानेष्वेतेषु तवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्यभिप्रायः ॥ ३३ ॥

 श्री०टी०-यस्मादेवं तस्मादिति । तस्मात्त्वं युद्धायोत्तिष्ठ । देवैरपि दुर्जया भीष्मद्रोणादयोऽर्जुनेन निर्जिता इत्येवंभूतं यशो लभस्व प्राप्नुहि । अयत्नेन शत्रूञ्जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते च तव शत्रवस्त्वदीययुद्धात्पूर्वमेव मयैव कालात्मना निहत-


  1. च. ज. झ. "त्युत्कट: का।