म० टी०-द्रोणभीष्मजयद्रथकर्णेषु जयाशाविषयेषु हतेषु निराश्रयो दुर्योधनों
हत एवेत्यनुसंधाय जयाशां परित्यज्य यदि धृतराष्ट्रः संधिं कुर्यात्तदा शान्तिरुपयेषां
भवेदित्यभिप्रायवांस्ततः किं वृत्तमित्यपेक्षायाम्-
संजय उवाच- |
एतत्पूर्वोक्तं केशवस्य वचनं श्रुत्वा कृताञ्जलिः किरीटीन्द्रदत्तकिरीटः परमवीरत्वेन प्रसिद्धो वेपमानः परमाश्चर्यदर्शनजनितेन संभ्रमेण कम्पमानोऽर्जुनः कृष्णं भक्ताघकर्षणं भगवन्तं नमस्कृत्वा नमस्कृत्य भूयः पुनरप्याहोक्तवान्सगद्गदं भयेन हर्षेण चाश्रुपूर्णनेत्रत्वे सति कफरुद्धकण्ठतया वाचो मन्दत्वसकम्पत्वादिविकारः सगद्गदस्तद्युक्तं यथा स्यात्, भीतभीतोऽतिशयेन भीतः सन्पूर्वं नमस्कृत्य पुनरपि प्रणम्यात्यन्तनम्रो भूत्वाऽऽहेति संवन्धः ॥ ३५ ॥
श्री० टी०-ततो यद्वृत्तं तद्धृतराष्ट्रं प्रति संजय उवाच-एतदिति । एतत्पूर्वक्ष्लोकत्रयात्मकं केशवस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीटयर्जुनः कृताञ्जलिः संपुटीकृतहस्तः कृष्णं नमस्कृत्य पुनरप्याहोक्तवान् । कथमाह भयहर्षाद्यावेशवशाद्गद्गदेन कण्ठकम्पनेन सह वर्तत इति सगद्गदं यथा भवति तथा । किं च भीतादपि भीतः सन्प्रणम्यावनतो भूत्वा ॥ ३५ ॥
म०टी०-एकादशभिः-
अर्जुन उवाच- |
स्थान इत्यव्ययं युक्तमित्यर्थे । हे हृषीकेश सर्वेन्द्रियप्रवर्तक यतस्त्वमेवमत्यन्ताद्भुतप्रभावो भक्तवत्सलश्च ततस्तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशयप्राशस्त्यस्य कीर्तनेन प्रवणेन च न केवलमहमेव प्रह्रष्यामि किं तु सर्वमेव जगच्चेतनमात्रं रसोदि-.