पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०३८]
३४१
श्रीमद्भगवद्गीता।


त्वमेव त्वद्भिन्नं किमपि नास्तीत्यर्थः । तत्परं यदित्यत्र यच्छब्दात्प्राक्चकारमाप केचित्पठन्ति । एतैर्हेतुभिस्त्वां सर्वे नम[१]स्यन्तीति न किमपि चित्रमित्यर्थः ॥ ३७ ॥

 श्री०टी०-तत्र हेतुमाह-कस्मादिति । हे महात्मन्हेऽनन्त हे देवेश हे जगन्निवास कस्माद्धेतोस्ते तुभ्यं न नमेरन्नमस्कारं न कुर्युः । कथंभूताय ब्रह्मणोऽपि गरीयसे गुरुतरायाऽऽदिकत्रे च ब्रह्मणोऽपि जनकाय । किं च सद्व्यक्तमसदव्यक्तं च ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म तच्च त्वमेव । एतैर्नवभिहेतुभिस्त्वां सर्वे नमस्यन्तीति न चित्रमित्यर्थः ॥ ३७॥

 म०. टी०-भक्त्युद्रेकात्पुनरपि स्तौति-

त्मादिदेवः पुरुषः पुराण-
 स्त्वमस्य विश्वस्य परं निधानम् ॥
वेत्ताऽसि वेद्यं च परं च धाम
 त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥

 त्वमादिदेवो जगतः सर्गहेतुत्वात् , पुरुषः पूरयिता, पुराणोऽनादिः, त्वमस्य विश्वस्य परं निधानं लयस्थानत्वान्निधीयते सर्वमस्मिन्निति । एवं सृष्टिप्रलयस्थानत्वेनोपादानत्वमुक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्तयन्निमित्ततामाह वेत्ता वेदिता सर्वस्या[२]सि । द्वैतापत्तिं वारयति-यच्च वेद्यं तदपि त्वमेवासि वेदनरूपे वेदितरि परमार्थसंबन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् । अत एव परं च धाम यत्सच्चिदानन्दघनमविद्यातत्कार्यनिर्मुक्तं विष्णोः परमं पदं तदपि त्वमेवासि । त्वया सद्रूपेण स्फुरणरूपेण च कारणेन ततं व्याप्तमिदं स्वतःसत्तास्फूर्तिशून्यं विश्वं कार्यं मायिकसंबन्धेनैव स्थितिकाले हेऽनन्तरूपापरिच्छिन्नस्वरूप ॥ ३८ ॥

 श्री०टी०-किंच-त्वमिति । त्वमादिदेवो देवानामादिः । यतः पुराणोऽनादिः पुरुषस्त्वमत एव त्वमस्य विश्वस्य परं निधानं लयस्थानम् । तथा विश्वस्य वेत्ता वेदिता ज्ञाता त्वम् । यच्च वेद्यं वस्तुजातं परं च धाम वैष्णवं पदं तदपि त्वमेवासि । अत एव हेऽनन्तरूप त्वयैवेदं विश्वं ततं व्याप्तम् । एतैश्च सप्तभिहेतुभिस्त्वमेव नमस्कार्य इति भावः ॥ ३८ ॥

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ॥


  1. क. ख. ग. घ. ङ. च. ज. न. मन्ती'।
  2. क. घ. 'स्यापि । द्वै ।