पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[अ० ११क्ष्लो०३९-४०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


नमो नमस्तेऽस्तु सहस्रकृत्वः
 पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥  

 म०. टी०.वायुर्यमोऽग्निवरुणः शशाङ्क: सूर्यादीनामप्युपलक्षणमेतत् । प्रजापतिर्विराड्हिरण्यगर्भश्च, प्रपितामहश्च पितामहस्य हिरण्यगर्भस्यापि पिता च त्वम् । यस्मादेवं सर्वदेवात्मकत्वात्त्वमेव सर्वैर्नेमस्कार्योऽसि तस्मान्ममापि वराकस्य नमो नमस्ते तुभ्यमस्तु सहस्रकृत्वः, पुनश्च भूयोऽपि पुनरपि नमो नमस्ते । भक्तिश्रद्धातिशयेन नमस्कारेष्वलंप्रत्ययाभावोऽनया नमस्कारावृत्त्या सूच्यते ॥ ३९ ॥

 श्री० टी०-इतश्च त्वमेव सर्वैर्नेमस्कार्यः सर्वदेवात्मकत्वादिति स्तुवन्स्वयमपि नमस्करोति-वायुरिति । वाय्वादिरूपस्त्वमिति सर्वदेवतात्मकत्वोपलक्षणार्थमुक्तम् । प्रजापतिः पितामहः । तस्यापि जनकत्वात्प्रपितामहस्त्वमतस्ते तुभ्यं सहस्रकृत्वः सहस्रशो नमोऽस्तु । भूयोऽपि पुनरपि सहस्रकृत्वो नमो नम इति भक्तिश्रद्धाभरातिरेकेण नमस्कारेषु तृप्तिमनधिगच्छन्बहुशः प्रणमति ॥ ३९ ॥

नमः पुरस्तादथ पृष्ठतस्ते
 नमोऽस्तु ते सर्वत एव सर्व ॥
अनन्तवीर्यामितविक्रमस्त्वं
 सर्व समाप्नोषि ततोऽसि सर्वः ॥ ४०॥

 म०. टी०-तुभ्यं पुरस्तादग्रभागे नमोऽस्तु तुभ्यं पुरो नमः स्तादिति वा । अथशब्दः समुच्चये । पृष्ठतोऽपि तुभ्यं नमः स्तात् । नमोऽस्तु ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय हे सर्व । वीर्य शारीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलम् । “एक वीर्याधिकं मन्य उतैकं शिक्षयाऽधिकम्" इत्युक्तेर्भीमदुर्योधनयोरन्येषु चैकैकं व्यवस्थितम् । त्वं तु अनन्तवीर्यश्चामितविक्रमश्चेति समस्तमेकं पदम् । अनन्तवीर्येति संबोधनं वा। सर्व समस्तं जगत्समाप्नोषि सम्यगेकेन सद्रूपणाऽऽप्नोषि सर्वात्मना व्याप्नोषि ततस्तस्मात्सर्वोऽसि त्वदतिरिक्तं किमपि नास्तीत्यर्थः ॥ ४० ॥

 श्री०टी०-किं च नम इति । हे सर्व सर्वात्मन्सर्वास्वपि दिक्षु तुभ्यं नमोऽस्तु । सर्वात्मकत्वमुपपादयन्नाह-अनन्तं वीर्यं सामर्थ्यं यस्य तथाऽमितो विक्रमः पराक्रमो यस्य सः । एवंभूतस्त्वं सर्वं विश्वं सम्यगन्तर्बहिश्च व्याप्नोषि सुवर्णमिव कटककुण्डलादि स्वकार्यं व्याप्य वर्तसे ततः सर्वस्वरूपोऽसि ॥ ४० ॥

 म०टी०-यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराधानजस्रमकार्षं ततः परमकारुणिकं त्वां प्रणम्यापराधक्षमां कारयामीत्याह द्वाभ्याम्-