म०टी०-एवमपराधक्षमा प्रार्थ्य पुनः प्राग्रूपदर्शनं विश्वरूपोपसंहारेण प्रार्थयते
द्वाभ्याम्-
अदृष्टपूर्वं ह्रषितोऽस्मि दृष्ट्वा |
कदाऽप्यदृष्टपूर्वं पूर्वमदृष्टं विश्वरूपं दृष्ट्वा हृषितो हृष्टोऽस्मि । तद्विकृतरूपदर्शनजेन भयेन च प्रव्यथितं व्याकुलीकृतं मनो मे । अतस्तदेव प्राचीनमेव मम प्राणापेक्षयाऽपि प्रियं रूपं मे दर्शय हे देव हे देवेश हे जगन्निवास प्रसीद प्राग्रूपदर्शनरूपं प्रसादं मे कुरु ॥ ४५ ॥
श्री०टी०-एवं क्षमापयित्वा प्रार्थयतेऽदृष्टपूर्वमिति द्वाभ्याम्-हे देव पूर्वमदृष्टं तव रूपं दृष्ट्वा हृषितो हृष्टोऽस्मि । तथा भयेन च मे मनः प्रव्यथितं प्रचलितम् । तस्मान्मम व्यथानिवृत्तये तदेव रूपं दर्शय हे देवेश हे जगन्निवास प्रसन्नो भव ॥४५॥
म०टी०-तदेव रूपं विवृणोति-
किरीटिनं गदिनं चक्रहस्त- |
किरीटवन्तं गदावन्तं चक्रहस्तं [२]च त्वां द्रष्टुमिच्छाम्यहं तथैव पूर्ववदेव । अतस्तेनैव रूपेण चतुर्भुजेन वसुदेवात्मजत्वेन भव हे इदानीं सहस्रबाहो हे विश्वमूर्ते । उपसंहृत्य विश्वरूपं पूर्वरूपेणैव प्रकटो भवेत्यर्थः । एतेन सर्वदा चतुर्भुजादिरूपमर्नुनेन भगवतो दृश्यत इत्युक्तम् ॥ ४६ ॥
श्री०टी-तदेव रूपं विशेषयन्नाह-किरीटिनमित्ति । किरीटवन्तं गदावन्तं चक्रहस्तं च त्वां द्रष्टुमिच्छामि पूर्वं यथा दृष्टोऽसि तथैव । अतो हे सहस्रबाहो हे विश्वमूर्त इदं विश्वरूपं संहृत्य तेनैव किरीटादियुक्तेन चतुर्भुजेन रूपेण भवाऽऽविर्भव । तदनेन श्रीकृष्णमर्जुनः पूर्वमपि किरीटादियुक्तमेव पश्यतीति गम्यते । यत्तु पूर्वमुक्तं विश्वरूपदर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति तद्बह्वकिरीटाद्यभिप्रायेण ।