पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०४९-५०]
३४७
श्रीमद्भगवद्गीता।


 श्री०टी०-एतद्दर्शनमतिदुर्लभं लब्ध्वा त्वं कृतार्थोऽसीत्याह-नेति । वेदाध्ययनातिरेकेण यज्ञाध्ययनस्याभावाद्यज्ञशब्देन यज्ञविद्याः कल्पसूत्राद्या लक्ष्यन्ते । वेदानां यज्ञविद्यानां चाध्ययनैरित्यर्थः । न च दानैर्न च क्रियाभिरग्निहोत्रादिभिर्न चोग्रैस्तपोभिश्चान्द्रायणादिभिरेवंरूपोऽहं त्वदन्येन मनुष्यलोके द्रष्टुं शक्यः । अपि तु त्वमेव केवलं मत्प्रसादेन दृष्ट्वा कृतार्थोऽसि ॥ १८ ॥

 म० टी०-एवं त्वदनुग्रहार्थमाविर्भूतेन रूपेणानेन चेत्तवोद्वेगस्तर्हि-

मा ते व्यथा मा च विमूढभावो
 दृष्ट्वा रूपं घोरमीद्दङ्ममेदम् ॥
व्यपेतभीः प्रीतमनाः पुनस्त्वं
 तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥

 इदं घोरमीदृगनेकबाह्वादियुक्तत्वेन भयंकरं मम रूपं दृष्ट्वा स्थितस्य ते तव या व्यथा भयनिमित्ता पीडा सा मा भूत् । तथा मद्रूपदर्शनेऽपि यो विमूढभावो व्याकुलचित्तत्वमपरितोषः सोऽपि मा भूत्किं तु व्यपेतभीरपगतभयः प्रीतमनाश्च सन्पुनस्त्वं तदेव चतुर्भुजं वासुदेवत्वादिविशिष्टं त्वया सदा पूर्वदृष्टं रूपमिदं विश्वरूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य प्रकर्षेण भयराहित्येन संतोषेण च पश्य ॥ ४९ ॥

 श्री०टी०-एवमपि चेत्तवेदं घोरं रूपं दृष्ट्वा व्यथा भवति तर्हि तदेव रूपं दर्शयामीत्याह-मा त इति । ईदृगीदृशं मदीयं घोरं रूपं दृष्ट्वा ते व्यथा माऽस्तु । विमूढभावो विमूढत्वं च माऽस्तु । व्यपगतभयः प्रीतमनाश्च सन्पुनस्त्वं तदेवेदं मम रूपं प्रकर्षेण पश्य ॥ ४९ ॥

संजय उवाच-
  इत्यर्जुनं वासुदेवस्तथोक्त्वा
   स्वकं रूपं दर्शयामास भूयः॥
  आश्वासयामास च भीतमेनं
   भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥

 म०टी०-वासुदेवोऽर्जुनमिति प्रागुक्तमुक्त्वा यथा पूर्वमासीत्तथा स्वकं रूपं किरीटमकरकुण्डलगदाचक्रादियुक्तं चतुर्भुजं श्रीवत्सकौस्तुभवनमालापीताम्बरादिशोभितं दर्शयामास भूयः पुनराश्वासयामास च भीतमेनमर्जुनं भूत्वा पुनः पूर्ववत्सौम्यवपुरनुग्र[१]शरीरो महात्मा परमकारुणिकः सर्वेश्वरः सर्वज्ञ इत्यादिकल्याणगुणाकरः ॥ ६० ॥


  1. ख. ग. घ. 3. च. छ. झ. ज.ग्रहश।