पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[अ०११ क्ष्लो०५५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


पाण्डव । अयमर्थस्त्वया ज्ञातुमिष्टो मयोपदिष्टो नातः परं किंचित्कर्तव्यमस्तीत्यर्थः ॥ ५५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां विश्वरूप-

दर्शननिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥

 श्री० टी०-~-अतः सर्वशास्त्रसारं परमं रहस्यं शृण्वित्याह-मत्कर्मकृदिति । मदर्थ कर्म करोतीति मत्कर्मकृत् , अहमेव परमः पुरुषार्थो यस्य सः, ममैव भक्तिमाश्रितः, [१] पुत्रादिषु सङ्गवर्जितो निर्वैरश्च सर्वभूतेषु । एवंभूतो यः[२] स मां प्राप्नोति नान्य इति ॥ ५५ ॥

देवैरपि सुदुर्दर्श तपोयज्ञादिकोटिभिः ।
मक्ताय भगवानेवं विश्वरूपमदर्शयत् ॥१॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां विश्वरू-

पदर्शनं नामैकादशोऽध्यायः ॥ ११ ॥

अथ द्वादशोऽध्यायः।

 म०टी०---पूर्वाध्यायान्ते-

“मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव "

 इत्युक्तम् । तत्र मच्छब्दार्थे संदेहः किं निराकारमेव सर्वस्वरूपं वस्तु मच्छन्देनोक्तं भगवता किं वा साकारमिति । उभयत्रापि प्रयोगदर्शनात् ।

" बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सूदुर्लभः "

 इत्यादौ निराकारं वस्तु व्यपदिष्ट, विश्वरूपदर्शनानन्तरं च-

नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा "

 इति साकारं वस्तु । उभयोश्च भगवदुपदेशयोरधिकारिभेदेनैव व्यवस्थया भवितव्यमन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा कि निराकारमेव वस्तु चिन्तनीयं किं वा साकारमिति स्वाधिकारनिश्चयाय सगुणनिर्गुणविद्ययोर्विशेषबुभुत्सया-


  1. ग. "तः, मद्विमुखेषु पु ।
  2. ज. यः पुमान्स मां।