पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
[अ० १२क्ष्लो०३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


मता अभिप्रेताः । ते हि सदा मदासक्तचित्ततया मामेव विषयान्तरविमुखाश्चिन्तयन्तोऽ- होरात्राण्यतिवाहयन्ति । अतस्त एव युक्ततमा मता अभिमताः ॥ २ ॥

 श्री०टी०-तत्र प्रथमाः श्रेष्ठा इत्युत्तरं श्रीभगवानुवाच-मयीति । मयि परमेश्वरे सर्वज्ञत्वादिगृणविशिष्टे मन आवेश्यैकाग्रं कृत्वा नित्ययुक्ता मदर्थकर्मानुष्ठानादिना मन्निष्ठाः : सन्तः श्रेष्ठया श्रद्धया युक्ता ये मामाराधयन्ति ते युक्ततमा मता ममाभिमताः ॥२॥

 म० टी०-निर्गुणब्रह्मविदपेक्षया सगुणब्रह्मविदां कोऽतिशयो येन त एव युक्ततमास्तवाभिमता इत्यपेक्षायां तमतिशयं वक्तुं तन्निरूपकान्निर्गुणब्रह्मविदः प्रस्तौति द्वाभ्याम्-

यं त्वक्षरमनिर्देश्यमव्यक्तं पयुपासते ॥
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३॥

 येऽक्षरं मामुपासते तेऽपि मामेव प्राप्नुवन्तीति द्वितीयगतेनान्वयः । पूर्वेभ्यो वैलक्षण्यद्योतनाय तुशब्दः । अक्षरं निर्विशेष ब्रह्म वाचक्नवीब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्त विशेषणानि । अनिर्देश्यं शब्देन व्यपदेष्टुमशक्यं यतोऽव्यक्तं शब्दप्रवृत्तिनिमित्तैर्जातिगुणक्रियासंबन्धै रहितम् । जाति गुणं क्रियां संबन्धं वा द्वारीकृत्य शब्दप्रवृत्तेनिर्विशेषे प्रवृत्त्ययोगात् । कुतो जात्यादिराहित्यमत आह सर्वत्रगं सर्वव्यापि सर्वकारणम् । अतो जात्यादिशून्यं परिच्छिन्नस्य कार्यस्यैव जात्यादियोगदर्शनात् , आकाशादीनामपि कार्यत्वाभ्युपगमाञ्च । अत एवाचिन्त्यं शब्दवृत्तेरिव मनोवृत्तेरपि न विषयः, तस्या अपि परिच्छिन्नविषयत्वात् । " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ” इति श्रुतेः । तर्हि कथं "तं त्वौपनिषदं पुरुषं पृच्छामि" इति " दृश्यते त्वग्रयया बुध्द्या " इति च श्रुतिः । “ शास्त्रयोनित्वात्" इति सूत्रं च । उच्यते, अविद्याकल्पितसंबन्धेन शब्दजन्यायां बुद्धिवृत्तौ चरमायां परमानन्दवोधरूपे शुद्धे वस्तुनि प्रतिबिम्बितेऽविद्यातत्कार्ययोः कल्पितयोर्निवृत्त्युपपत्तेरुपचारेण विषयत्वाभिधानात् । अतस्तत्र कल्पितमविद्यासंबन्धं प्रतिपादयितुमाह-कूटस्थं, यन्मिथ्याभूतं सत्यतया प्रतीयते तत्कूटमिति लोकैरुच्यते । यथा कूटकार्षार्पणः कूटसाक्षित्वमित्यादौ । अज्ञानमपि मायाख्यं सह कार्यप्रपञ्चेन मिथ्याभूतमपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्नाध्यासिकेन संबन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थमज्ञानतत्कार्याधिष्ठानमित्यर्थः । एतेन सर्वानुपपत्तिपरिहारः कृतः । अत एव सर्वविकाराणामविद्याकल्पितत्वात्तदधिष्ठानं साक्षिचैतन्यं निर्विकारमित्याह-अचलं, चलनं विकारः । अचलत्वादेव ध्रुवमपरिणामि नित्यम् । एतादृशं शुद्धं ब्रह्म मां पर्युपासते - ..